Book Title: Nandanvan Kalpataru 2000 00 SrNo 04
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti
View full book text
________________
-
| "भावना भवनाशिनी”
- मुनिरत्नकीर्तिविजयः साधुजनानामागमनेन तेषां चोपदेशदानेन सततं लाभान्वित एको ग्राम आसीत् । तत्रत्या जना अपि भावुका मुग्धा धर्मरुचयश्चाऽऽसन् । साधूनां पदार्पणेन ते सर्वे प्रसन्नतां प्राप्नुवन्ति स्म । सर्वरीत्या च तान् पर्युपास्य तल्लाभेन तोषमनुभवन्ति स्म । सर्वेषां साधूनां सकाशात् धर्मवचनान्यपि तेऽश्रृण्वन् ।
एकदा तस्मिन् ग्रामे शिष्यगणपरिवृत एक साधुरागतः । ग्रामजनाश्च तेषां स्वागतं कृतवन्तः । वन्दनादिकं कृत्वा तत्र स्थैर्यार्थं प्रार्थनाऽपि लोकैः कृता । लोकानां भक्तिमनुलक्ष्य विज्ञप्तिः स्वीकृताऽपि साधुभिः । अन्यस्मिन् दिने प्रवचनमपि निश्चितम् ।
अथ द्वितीयदिने प्रवचनसमये सर्वेऽपि जना उपस्थिता अभवन् । साधुमहात्मनाऽपि मंगलाचरणपूर्वकं प्रवचनं प्रारब्धम् । तस्मिंश्च प्रवचने "भावना भवनाशिनी । भावनाया अनेके लाभाः सन्ति । भावनया हृदयस्य शुद्धिर्भवति । शत्रुरपि मित्रायते शुभभावेन । अतो नित्यं शुभभावना भावनीयैव" इत्याद्युक्त्वा भावनया केन कीदृग्रूपेण को लाभविशेषः प्राप्तस्तदृष्टान्तोऽपि सूचितः।
यथाकालं प्रवचनं समाप्तिमगात् । जना अत्यन्तं मुदिता जाताः । जना भावुका आसन् किन्तु किञ्चिज्जाड्यमपि तेषु प्रवर्त्तते स्म । अत उपदेशस्य भावार्थमगृहीत्वा शब्दा एव तैर्गृहीताः, यत् "शुभभावना नित्यं भावनीयैव" इति ।
सपरिवार: स साधुश्च प्राप्तकालस्ततो विहृतवानपि ।
अत्र ग्रामजनैः - 'अहरह एकत्र सम्मील्याऽस्माभिर्भावना भावनीया' इति निश्चयः कृतः । तदर्थं च स्थलं कालश्चाऽपि निश्चितौ।।
अथ सर्वेऽपि रात्रिसमये नित्यमेकत्र सम्मीलन्ति । भिन्न भिन्नां च भावनां भावयन्ति । केचित् प्रभुभक्त्यर्थं किं कर्तव्यमिति भावयन्ति-यद् ‘भगवत्प्रतिमां वयमाभूषणैरलङ्करिष्यामः ।
19 ५६ en
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98