Book Title: Nandanvan Kalpataru 2000 00 SrNo 04
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 40
________________ सुखत्वेन कथयितुं शक्यम्। किञ्च, यस्य सुखस्य प्राप्तौ दुःखं, अर्थेन लब्धसुखस्य स्थिरीकरणे दुःखं, तथा यस्य वियोगेऽपि दुःखम्, एवं यस्मिन् सदा दुःखमेवाऽस्ति तत् सुखं कथं सुखं कथ्यते । कथितम्अर्थानामर्जने दुःखमर्जितानां च रक्षणे। आये दुःखं व्यये दुःखं धिग् द्रव्यं दुःखवर्धनम् ।। एवं यथार्थत्वेन दुःखमेवाऽस्ति अर्थेन लब्धं सुखम् । तथैव कामेन लभ्यमानं सुखमपि दुःखरूपमेव । कामस्य विपाकान् वर्णयता भगवता श्रीउत्तराध्ययनसूत्रे प्ररूपितम्खणमित्तसुक्खा बहुकालदुक्खा पगामदुक्खा अनिगामसुक्खा । संसारमुक्कस्स विपक्खभूया खाणी अणत्थाण उकामभोगा॥ अन्यच्च-यत् पराधीनं तत् क्षणिकं, यत् क्षणिकं तद्वस्तुतो न सुखं, किन्तु सुखाभासः एव। चारुवस्तुनो दर्शनात् चक्षुः प्रीणयति, मनोज्ञगन्धात् घ्राणमानन्दमनुभवति, कोमलस्पर्शात् त्वक् प्रसन्नतां प्राप्नोति, मधुरारावश्रवणेन कर्णः प्रोल्लसति, एवमेतेभ्योऽ 'हं सुखं लभे' इति वयं मन्यामहे । किन्तु सा भ्रमणैव । यतः सुखं नाऽऽगन्तुको गुणोऽपि तु आत्मनो गुण: स्वाभाविकः, तेन कस्याऽपि बाह्यवस्तुनो भौतिकपदार्थस्य चाऽवलम्बनात् कदापि न सुखं प्राप्यते । एवमर्थकामाभ्यां लभ्यमानं सुखं सुखाभासः एव । तथाऽप्येतस्मिन् सुखाभासे मोहिता वयं सर्वेऽपि तदर्थकामयोः प्राप्त्यर्थमेव निरन्तरं रात्रिंदिवं परिभ्राम्यामः । निद्रापरिश्रम-आतप-शीतादीनि दुःखान्यदृष्ट्वाऽऽजीवनमर्थकामार्थमेव सदा प्रयतामहे । किञ्च, एष सुखाभासस्तु अब्धिजलावर्तनिभोऽस्ति । अब्धिजलावर्ते पतितो जनो बहिनिर्गन्तुं यथा यथा प्रयतते तथा तथा स जीवस्तस्मिन्नेव दृढत्वेन निमज्जति, तथैवैकदाऽर्थकामयोः सुखेषु निमग्नो जनः कदाप्युपरि नाऽऽगन्तुं समर्थो भवति, किन्तु स बहिर्निर्गन्तुकामो जीवस्तस्य सुखाभासस्य भ्रमणायां विशेषतो निमज्जति । एवं शनैः शनैः स सर्वतो भ्रष्टो भवति । प्रान्ते स जीवः स्वकीयधर्मात्तथाशाश्वतादात्मिकसुखादपि वञ्चितो O ३३ er Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98