Book Title: Nandanvan Kalpataru 2000 00 SrNo 04
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 46
________________ “स्याद्वादस्य पराजेता न भूतो न भविष्यति" ? ____ -मुनिहितवर्धनविजयः त्रिलोक गुरुभि जिनोत्तमैः प्ररूपितं विश्व-श्रेयस्करंजैन दर्शनं ननु स्याद्वाद-सिद्धान्तोपर्येव निर्भरम् । स्याद्वादः श्रीमज्जिनशासनस्य आत्मा। स्याद्वादवादस्य तन्तुभिरेव समग्रं जिनशासनं ग्रथितम् । स्याद्वादसिद्धान्तेन साकं जैनदर्शनस्याऽविभाज्यसम्बन्धः सुप्रसिद्धः । अत उच्यते - स्याद्वाद एव जैनमतोऽथवा तु जैनमतस्त्वेव स्याद्वादः । तत्स्याद्वादस्य विजितान्यनिखिलनादस्य धुरन्धरोद्गाता भगवान् श्रीतीर्थङ्करः । भगवद्भिस्तीर्थकृभिः प्रस्फूर्जितः स्याद्वाद एव नूनं ब्रह्माण्डस्य तत्त्वान्यारपारमगवन्तुं सक्षमः । विना स्याद्वादयुक्त्या कस्यचिदपि तत्त्वस्य निष्कर्ष क्वचिदपि नैव गम्यते। स्याद्वादस्तु प्रखरवादः । स्याद्वादः सर्वावगाही वादः । स्याद्वादः सापेक्षवादः । स्याद्वादस्तात्पर्योपजीवी वादः । तस्य प्रभावोऽपि महान् स्वभावोऽपि महान् ।। दिग्गजा अपि विपश्चितस्तं पराभवितुं सर्वथा पामराः । प्रचुरप्रभाविन्योऽपि विचारशैलयस्तमतिक्रमितुं त्रुटितांहयः । बुद्धि-जित बृहस्पतयोऽपि मेधाघनपतय स्तमर्दयितुं विकलबलाः । स्याद्वादरेखा किलेदृशी चातिशयवती लक्ष्मणरेखा, यदुत तामतिक्रमितुं केचिदपि दार्शनिकदशानना नह्येव प्रभवन्ति । स्याद्वाद पराजेता न भूतो न भविष्यति । स्याद्वादस्त्रैकालिकसङ्कुलोपरि स्वकीयस्य कीर्तिकलाकीर्णं विस्तीर्णं विजयध्वज - Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98