Book Title: Nandanvan Kalpataru 2000 00 SrNo 04
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 56
________________ वदामि, कं वा सत्यं कथयामि ? अहो ! सुमहद्धर्मसङ्कटं आपतितम् । किं करोमि? शिव ! शिव ! शिव ! किन्तु क्षणानन्तरमेव तस्य हृदये स्फुरितं - अरे रे ! वृथैवाऽहं विचारप्रस्तारं करोमि, इदं तु अतीव सरलं किमनेन प्रलम्बविचारेण ? अहमेतादृशमेव निराकरणं वदामि यथा न व्याघ्रो रुष्यति न वा सिंहः । सर्पो म्रियेताऽपि न यष्टिर्भञ्ज्यादपि न । ----- वदनोपरि पूर्णां गम्भीरतां विलिप्य स स्वस्थान एव सहसोत्थितः । प्रतीक्षारतौ तौ अपि सज्जीभूतं दृष्ट्वा हृष्टौ साकाङ्क्षौ च बभूवतुः । जरन्माजरिण तारस्वरेण विवादस्य निराकरणं निर्णयश्च श्रावितौ तौ - भो महाराजपादौ ! भवतोर्विवादोऽतीवगम्भीरः, सूक्ष्मविषयश्च । नैतादृशस्य विवादस्य निर्णयं कर्तुं अन्यस्य वराकस्य पृथग्जनस्य शक्ति: । मादृशोऽनुभवसम्पन्नो जन एवाऽधिकारी स्यादीदृशे विषये । अतो भवन्ताविहाऽऽगतौ तद् बाढं साधु कृतमिति मन्ये । मद्गेहाङ्गणमपि भवादृशानां चरणधूल्याऽद्य पावनं संजातम् । अथ भवतोर्विवादस्य निराकरणं वदामि । सावधानीभूय शृणुतम् । - महाराजौ ! शीतं सदा पवनाधीनं वर्तत इति मामकीनाऽनुभूतिः । ततश्च मन्येऽहं यद् यदा यत्र मासे पवनाधिक्यं तदा तत्र मासे शीतमपि प्रभूतं स्यात् । यदि स्पष्टं वदेयं तदा यस्मिन् शीतकाले पौषमासे पवनस्य प्रचुरता स्यात्, तदा पौषमासे शैत्यप्राचुर्यं निश्चितमेव स्यात् । यत्र च शीतकाले माघमासे पवनबाहुल्यं भवेत्, तदा माघमास एव शैत्यस्याऽपि बाहुल्यं भवेदेव । शैत्यं कस्मिन् मासे कियदिति भवतोर्जिज्ञासाया विवादस्य च एतदेव समीचीनं समाधानं निराकरणं च मम प्रतिभाति । भोः ! अन्यदपि किञ्चित् प्रष्टव्यमस्ति ? तर्हि त्वरितं वदतम् । अन्यथाऽहं वार्धक्यप्रभावाच्छीतभीतो गेहान्तर्गच्छामि, नामजपलीनश्च भवामि । शिव ! शिव ! शिव ! ततश्च एवं वदन् तयोः प्रतिवचनमनपेक्ष्यैव स मार्जारो बिलं प्रविष्टः । सिंह - द्वीपिनौ च तौ द्वावपि स्वं स्वं विजितम्मन्यौ यथागमं जग्मतुः स्वस्थानम् । Jain Education International ――――― ४९ ele For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98