Book Title: Nandanvan Kalpataru 2000 00 SrNo 04
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti
View full book text
________________
(३) हे भगवन् !
- मुनिरत्नकीर्तिविजयः __ आसीदेकः काष्ठहारकः । दारिद्यस्य मन्दिरम् । ग्रामस्य सीमनि साधुजनानां सहवास एव तस्याऽतीवाऽरुचिकरम् । तस्य गृहिणी तं सदाऽवमानयति स्म। ___एकदा रात्रौ मत्तवत् स गृहं प्रति गच्छन्नासीत् । सहसा भयावहं ताण्डवमुद्भूतम् । मार्गाद् भ्रष्टः सः । निश्चेष्ट इव भूत्वा भूमावपतत् । गाढनिद्रां स लेभे। यदा जागृतस्तदा स्वसमीपमेवैकं साधं दृष्टवान् । ___ 'अरे ! एष साधुस्तु बहुकालपूर्वं मृतः' इति तेन स्मृतम् । साधुरवदत् 'त्वं ताण्डवात् मृतोऽसि । अधुना त्वया तव सर्जकस्येश्वरस्य पार्श्वमागन्तव्यम् ।' ____ काष्ठहारकोऽपि तं साधुमन्वसरत् । उभावपि तावरण्यस्यैकं लघुगृहं प्राप्तवन्तौ । ईश्वरोऽत्र निवसति स्म । साधुरिमुदघाटयत् । अन्तस्तीब्रोऽग्निः प्रज्वालित आसीत् । ईश्वरस्य दूताः परित उपविश्याऽङ्गानि तापयन्ति स्म । काष्ठहारकं दृष्टा पुनः तापयितुं प्रवृत्ताः ।।
साधुरेकं दूतमकथयत्-अन्तर्गत्वा ईश्वरं सन्दिशतु यत् न्यायार्थमेकः काष्ठहारक आगतोऽस्ति।
काष्ठहारकोऽग्निं प्रत्यपासरत् । देवदूतास्तमरुन्धन् तापियतुं च नान्वमन्यन्त । तावत् कक्षद्वारमपावृतम्, बहिरागत्य देवदूत उवाच- 'भगवान् आगच्छति' । कक्षमध्ये एका तुला स्थापिता । धटा अपि तत्राऽऽनीताः । ___ काष्ठहारकः साधुश्च शीतमपनेतुमितस्ततो भ्रमितुं लग्नौ । तावत् कक्षद्वारं पुनरुद्घटितम् , ईश्वरश्चाऽऽगतः ।
ईश्वरः श्रान्तो वयोवृद्धश्च प्रतिभासते स्म । अधिकेन कार्यभारेण स एवं दृश्यते स्म । कार्ये विक्षेपात् विक्षुब्धोऽपि स आसीत् ।
"किं नाम ?'- सोऽपृच्छत् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98