Book Title: Nandanvan Kalpataru 2000 00 SrNo 04
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti
View full book text
________________
__नमो नमः श्रीगुरुनेमिसूरये ।।
पत्रम्
- मुनिधर्मकीर्तिविजयः आत्मीयबन्धो ! चेतन ! धर्मलाभोऽस्तु ।
करुणानिधि-वात्सल्योदधि-जगज्जनपतिश्रीवर्द्धमानविभोः परमकृपया पूज्यपादानां गुरुवराणामाशिषा च लक्ष्यसिद्धिं प्रति मदीया संयमयात्रा शनैः शनैः प्रवर्द्धते।
त्वदीयमान्तरिकमनोवेदनाभृतं पत्रं मिलितम् , मया पठितम्। किन्तु पत्रप्रत्युत्तरे कियान् कालो व्यतीतः, विहारपरिश्रमादध्यनव्यस्तत्वाच्च । _भ्रातर् ! कठिनोऽस्ति त्वदीयप्रश्नः । नैष प्रश्नः तवैव, अपि तु त्रिलोकवर्तिनिखिलप्राणधारकजनानामेष प्रश्नोऽस्ति । प्रश्नोऽस्ति तत्रोत्तरोऽप्यस्त्येव । आकालपर्यन्तं पृथक् पृथक् पद्धतिभिः बहवो जना धर्मगुरूनप्रश्नयन्। तैरुत्तरोऽपि दत्तोऽस्ति । एवं विद्वद्वर्यैः चिन्तकैरेतत्प्रश्नमनुलक्ष्य मननीयानि पुस्तकान्यपि लिखितानि सन्ति । तथापि यथाशक्ति तावकीनं प्रश्न निराकर्तुं प्रयत्नवान् भवाम्यहं, तवाऽऽग्रहत्वात् ।
त्वया पृष्टम्-"किं कर्तव्यं तरलं मनः प्रशान्तीकर्तुम्"? अस्मिन् जगत्यविरतगतेः स्वान्तस्य स्थैर्य दुःशकमस्ति । वाक्काययोः स्थैर्य सुलभं, न
चेतसः ।
बन्धो ! तिष्ठतु दूरे मनसः साङ्गोपाङ्गं स्थैर्य, किन्तु यदि ज्ञायेस्त्रस्माभिरज्ञातचित्ते रममाणा अकथ्यभावाः, तदपि प्रशंसनीयम् । यतोऽज्ञातविचारावलिं ज्ञात्वा पश्चात् स्वान्तस्य स्थिरताऽशक्या तु नास्त्येव।
अथ मनसि रममाणानामकथ्यभावानां जनकानीन्द्रियाणि सन्ति । ततो यदीन्द्रियाणि हस्तगतानि भवेयुस्तर्हि मनसः स्थैर्य अतीव सुलभं भवेत् । यदि भवेत् नगरस्य मुख्यद्वारं
-
NO ४२ @h
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98