Book Title: Nandanvan Kalpataru 2000 00 SrNo 04
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 50
________________ स्वाधीनं तर्हि सर्वमपि नगरं स्वसात् स्यात् । तथैवोपर्युक्तवर्णितानामगम्यविचारश्रेणीनां जनकानीन्द्रियाण्यात्मसात् भवेयुस्तर्हि चञ्चलमनस: स्थिरत्वं सिद्धयेदेव । ततश्चित्तस्य स्थैर्यार्थमाद्ये इन्द्रियाण्यात्मसात् करणीयानि सन्ति । किञ्च, हृषीकचित्तयोः साहचर्यमस्ति, अविनाभावित्वात् । वयं सर्वेऽप्यनुभवामः, यत् मनसि प्रतिक्षणमगणिता विचाराः प्रादुर्भवन्ति, किन्तु तान् सर्वानपि विचारान् सफलीकर्तुं न वयं समर्थाः । यतो न मनः स्वैरं विहर्तुं समर्थम्, किन्तु तत्र कस्यचिदपीन्द्रियस्याऽऽधार आवश्यकोऽस्ति । भवन्त्यत्र सर्वेऽपि विचाराः कस्याऽपीन्द्रियस्यैव विषयाः । तत इन्द्रियेण विषयीकृतो विचार एव दृष्टिगोचरो भवति, नान्यः । एवमिन्द्रियस्य साहाय्यं विना नास्ति शक्तिमत्किमपि कर्तुं मनः । यथा- यदा भवति घटं निरीक्षितुं स्पृहा, तस्मिन्नैव काले आन्तरचित्ते एकाऽतिसूक्ष्मप्रक्रिया भवति यन्मनो झटिति चक्षुषो निकटं गच्छति । तत्र गत्वा तदालम्बनेन घटप्रत्यक्षं करोति । एषा प्रक्रिया ज्ञातुं न शक्या । एतेन ज्ञायते, यत् प्रबलकामनायां सत्यामपि चक्षुरिन्द्रियं विनाऽशक्यमस्ति घटप्रत्यक्षम् । अतो यदेन्द्रियाण्युपशान्तानि निर्मलानि च भवन्ति तदा मनोऽप्युपशान्तं स्थिरं च भवति । एतत्कथनं दृढीकुर्वन् स्वामिरामस्य प्रसङ्गः स्मर्यते - एकदा स्वामिरामो हिमालययात्रां प्रवासयन्नासीत् । तदा मिलित एकः परमसिद्धयोगी। स्वामिरामेण स पृष्टः, प्रभो ! ज्ञानस्य परमावस्थां प्राप्तुं किं कर्तव्यम् ? तदोपनिषदो मन्त्रमुच्चरन् सिद्धयोगी आह-"यदेन्द्रियाणि संसारस्य विषयेभ्यो निर्वृत्त्य स्वायत्तानि भवेयुस्तदा तदुद्भूतसंस्काराः मानसं किमपि कर्तुं न शक्तिमन्तः । ततो मनः स्थिरमेकाग्रं च भवति" । एतेन कथनेन ज्ञायते , यदेन्द्रियाणि यदि स्थिरीभवेयुः तर्हि मनोऽवश्यमेव स्वस्थं भवेत् । ततो मनसः स्थैर्यार्थं प्रथममिन्द्रियाणि स्वाधीनानि करणीयानि सन्ति । अथ, इन्द्रियाणां स्वाधीनत्वे सति प्रवृत्तिविहीनं मनः व्याकुलं भवति, व्याकुलं मनश्च प्रतिक्षणमितस्ततो भ्राम्यति । तदा चञ्चले मनस्यनेके विकल्पा: विभिन्ना आकाङ्क्षाः 'कामनाश्चोद्भवन्ति । तदा तत्स्पृहायाः पूर्त्यर्थं मनो निरन्तरं प्रयतते । तथाऽप्युद्विग्नं मनः प्रतिनियतनिर्णयार्थमसमर्थं भवति । ततः स्वमनोरथानां निष्फलत्वात् मनसि संतापः 19 ४३ @ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98