Book Title: Nandanvan Kalpataru 2000 00 SrNo 04
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 44
________________ भवन्ति । ततो धर्मार्थं धनस्यऽपेक्षा न प्रशंसनीया । चतुर्दशशतग्रन्थप्रणेतृपूज्यपाद श्रीहरिभद्रसूरीश्वरभगवताऽष्टकप्रकरणे प्ररूपितं धर्मार्थं यस्य वित्तेहा तस्याऽनीहा गरीयसी । प्रक्षालनाद्धि पङ्कस्य दूरादस्पर्शनं वरम् ॥ एतेन ज्ञायते, यद् धर्मोऽपि निरपेक्षभावेनैव करणीयः । स धर्मो भिन्नभिन्नरीत्याssराधयितुं शक्यः । तं धर्मं कर्तुं सर्वेऽपि जीवाः समर्थाः । अत्राऽऽवश्यकमेतदेव, यत् सर्वेषामपि चित्ते शुभभावो भवेत् । प्रान्ते येषु जीवेषु कोऽपि पुरुषार्थो नास्ति ते जीवाः पृथ्व्यां मानवरूपेण पशुनिभा एव ज्ञेयाः । तथा च तेषां जीवनमपि निष्फलमेव भवति । अत एतादृशमनिच्छन्तो वयं सर्वेऽपि मोक्षपुरुषार्थान्वितधर्मपुरुषार्थाय विशेषतः प्रयतेमहीति मतिर्मे । Jain Education International { * फल्गु बाह्यं हि मण्डनम् । हैमवचनामृतम् " 66 गणकोटि: यः कर्म्मणः उदये उद्विग्नः स अज्ञः । यः कर्म्मणः उदये अनुद्विग्नः स विज्ञः । यः कर्म्मणः उदये सद्विचारेषु निमग्नः स प्राज्ञः । NO ३७ Cle } - साध्वी श्रीयुगन्धरा श्री For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98