Book Title: Nandanvan Kalpataru 2000 00 SrNo 04
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti
View full book text
________________
उपदेशमालायां गदितं - को दुक्खं पाविज्जा ? कस्स व सुक्खेहिं विम्हओ हुज्जा ? । को वन लभिज्ज मुक्खं ? रागद्दोसा जइ न हुज्जा?॥
अस्मिन् जगत्यपेक्षया तुल्यं न किमपि दुःखमस्ति । ततोऽपेक्षाविहीनः कृतो धर्म एव श्रेयस्करो भवति । यदि बाह्यसुखस्य भौतिकसुखस्य च स्पृहया धर्मः क्रियेत तर्हि संसारनाशको धर्मोऽपि संसारवर्द्धको भवपरम्परादश्च भवेत् । निराशंसभावेनाऽऽदृतोऽल्पः सूक्ष्मोऽपि धर्मः कल्याणकारी भवति । तत एतादृश एव धर्म आचरणीयः । तदैवैतादृशो धर्मः साधयितुं शक्यः, यदा निष्काममनोवृत्तिः निरासक्तचित्तवृत्तिश्च प्रादुर्भवेत् । अन्यथा कर्मक्षयस्य निदानरूपो धर्मोऽपि कर्मबन्धस्य कारणं भवेत्, ततः शुभकर्मबन्धोऽपि बन्धनकतैव ।
शास्त्रेषु अपि कथितं-न पुण्यबन्धस्याऽपेक्षयाऽपि धर्मः कर्तव्यः । यतः कमैव पुण्यमपि, कर्ममात्रं बन्धनं, ततः शुभमपि कर्म मोक्षमार्गस्य बाधकं भवति । यथा शीतलचन्दनैः प्रादुर्भूतोऽग्निरपि विस्तृतं वनवृन्दं दहति तथैव धर्मेण प्राप्तं पुण्यसुखमप्यात्मनो विशुद्धगुणान् शाश्वतं सुखं च स्थगयति । तत उत्तमजीवा धर्मेण प्रादुर्भूतं पुण्यभोगं मनसाऽपि नाऽभीष्टं मन्यन्ते।
तथापीदानी विदग्धात्मान एवं कथयन्ति, यद् यदि धनसंपत्तिः भवेत्तर्हि धर्मकार्याणि सामाजिककर्तव्यानि दुःखिजनसेवा चेति धर्मक्रियाः भवेयुरिति मत्वा ते जीवा धनार्थमन्यान् वञ्चयन्ति, असत्यं वदन्ति, मायया मुग्धजनेभ्यो धनं गृह्णन्ति, दुःखिजनानां हृदयं घातयन्ति एवं विविधप्रकारैः दुष्कृतैरनथैश्च द्रव्यमुपाय॑ सत्कार्येषु धार्मिकक्षेत्रेषु च धनव्ययं कुर्वन्ति । अधुनैतादृशो धर्मस्यैव प्रमाणमधिकं वर्तते । अपि तु वस्तुतोऽत्र न धर्मः किन्त्वाडम्बर एव । यतो भूतानां हिंसा, असत्यस्य आचरणं, अदत्तस्य ग्रहणं, मायाप्रपञ्चपूर्वकेण प्रवृत्तिः दुःखिजनानामवहीलना, एतदेवाऽधर्मः । कदाप्यधर्मेण प्राप्तया श्रिया धर्मः कर्तुं नैव शक्यः । यस्य मूलेऽशुभभावा वर्तन्ते स बाह्यापेक्षया दृश्यमानो बृहत्तमोऽपि धर्मोऽधर्म एव । कदाचिदेतादृशेन धर्मेण पुण्यबन्धो भवति किन्तु स सूक्ष्मरूपः, तदपेक्षया तस्याऽशुभः बन्धो बृहत्तमो भवति । तेन बन्धेन भविष्यति काले ते जीवाः पुण्यानुबन्धिपुण्यभाजो न
-
-
19 ३६
-
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98