Book Title: Nandanvan Kalpataru 2000 00 SrNo 04
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti
View full book text
________________
-
त्रिवर्गः
-मुनिधर्मकीर्तिविजयः
त्रिवर्ग संसाधनमन्तरेण पशोरिवाऽऽयुर्विफलं नरस्य। तत्रापि धर्मं प्रवरं वदन्ति न तं विना यद् भवतोऽर्थकामौ ॥
अन्वयः- त्रिवर्गसंसाधनमन्तरेण नरस्य आयुः पशोः इव विफलं (अस्ति)। तत्राऽपि धर्मं (एव) प्रवरं वदन्ति, यत्तं विनाऽर्थकामौ न भवतः।
भावार्थ:- धर्म-अर्थ-कामस्वरूपपुरुषार्थविहीनो नरः पशुनिभः कथ्यते, ततस्तस्याऽऽयुरपि निष्फलमस्ति । तत्र त्रिषु पुरषार्थेषु बुद्धैः- आगमज्ञैः धर्मपुरुषार्थ एवोपादेयः साधनीयश्च कथितः। यतस्तेनैव धर्मपुरुषार्थेनाऽन्यौ द्वावपि अर्थकामपुरुषार्थौ सिध्येते।
जाता अस्मिन् जिनशासनेऽद्यपर्यन्तं नैके महापुरुषाः। प्रत्येक शतके जिनमते विशिष्टा महापुरुषा अवातरन् । तैः सर्वैः महापुरुषैः यथामति यथाशक्ति च विद्या-तपो-योगमन्त्रादिसाधनाभिः विविधयुक्तिभिश्चाऽस्य शासनस्योपासना कृता । तत्प्रभावेणैव निराबाधमिदं शासनं प्रवर्ततेऽद्याऽपि।।
तत्र त्रयोदशशतकस्य प्रारम्भकाले कलिकालसर्वज्ञश्रीहेमचन्द्रसूरीश्वरभगवतां समकालीनाः पूज्यपादश्रीसोमप्रभसूरीश्वरा बभूवुः । तैः गुरुवरैः “सिन्दूरप्रकर' इतिनामा शतश्लोकमितो ग्रन्थो रचितः। अस्मिन् ग्रन्थे तीर्थकर-गुरु-जिनमत-सङ्घभक्तिमाहात्म्यकषायविपाक-गुणिजनसमागमलाभ-इन्द्रियदमनादिविविधान् विषयान् निरूपयन्तोऽनेके श्लोकाः सन्ति । तत्र धर्मस्य माहात्म्यं वर्णयन्नेष श्लोकोऽस्ति । __ चतुर्गतिषु परिभ्रमणशीलानां सर्वेषामपि जीवानां त्रैकालिकं कार्यं यैः दृष्टिगतं कृतं तैः सर्वज्ञ-सर्वदर्शितीर्थकरभगवद्भिः 'धर्म-अर्थ-काम-मोक्ष' इति चत्वारः पुरुषार्थाः प्रदर्शिताः। एषु चतुर्षु पुरुषार्थेषु सर्वमपि कार्यं जगतः समाविष्टं भवति । न केवलं मनुष्याणामपि तु देवानां नारकाणां तिरश्चामपि जीवानां सर्वं कार्यमेषु पुरुषार्थेषु आपतति। एतेभ्यः पुरुषार्थेभ्यो विना सृष्टेः कल्पनाऽप्यशक्या, यत एते चत्वारः पुरुषार्था एवाऽस्य जगत आधाराः सन्ति ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98