Book Title: Nandanvan Kalpataru 2000 00 SrNo 04
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti
View full book text
________________
च दर्शनं पदार्थानां परिस्थितेश्च सत्यं प्रति - अध्यात्म प्रति वा प्रेरयति । यत्र गते सति सुखस्यैव केवलमुदधिः कल्लोलयति । यतस्तठ्ठद्दर्शने न विद्यते काऽपि वासना स्पृहाऽतृप्तिर्वा । सत्यं दर्शनमेव केवलं तत्र भवति ।
कस्याऽपि कामुकस्य योगिनो वा पुरुषस्य कामिनीदर्शने यो दृष्टिभेदो वर्त्तते स एव भेद उपर्युक्तयोर्द्वयोरपि दर्शनयोर्वर्तते । एको भुक्तौ सुखं कल्पयति तत्प्राप्तौ च यतते । अपरश्च पनः परमाणनां विलासमात्रं तत्र पश्यति । अतो विरक्तावेव स सखं निश्चिनोति। यच्च तस्य हस्तगतमेव, न तत्र प्राप्तौ कोऽपि प्रयत्नः करणीयस्तेन । एकस्य, परिस्थितेर्वर्तमानं बाह्यस्वरूपं विलोभ्याऽऽसक्तिं जनयति, अपरस्य च परिस्थितेः सत्यमध्यात्म वा विरक्तिमुत्पादयति, एतदेव च सद्दर्शनम् । उच्चैरपि भौतिकतायां क्षणविनश्वरत्वं संदृश्य तद् द्वारा च विरक्तिं प्रदीप्य निरपेक्षतायाः सुखस्याऽनुभव एव सम्यग् दर्शनम् । कस्याश्चिदपि भौतिकताया वर्तमानस्थितौ विमुह्य तत्र च सुखं मत्वा तत्प्राप्तौ यत्न एव मिथ्यादर्शनम् । येनैतादृशः प्रयत्नो न कृतस्तस्य सुखं तु स्थिरं शाश्वतं च भवति । यतस्तन्न साधारम् । येन च यत्ने कृते किमपि लब्धं तर्हि तत्सुखं त्वल्पकालीनं भवति । यतो वस्त्वादिनाशस्तत्यागश्च तं दुःखयत्येव । यश्च प्रयत्रशतैरपि निष्फलोभूत् स तु सदाकालं दुःखी एव । अत एव तद्मिथ्या एव । सुखं तु सम्यग्दर्शननेनैव भवति ।
नैवं चिन्तनीयं केनाऽप्यत्र यद् "नास्त्यस्य किञ्चिदपि प्रापणे शक्यताऽतो विरक्तेर्मार्गः स्वीकृतः ।" एतत्कथनानुसारं सन्देहस्तु पुरुषार्थिनमप्यनुसरतीयानेव । न तत्र सर्वथा सर्वं शक्यमेव । अपरं च, अप्राप्तौ विरक्तिस्तु निराशा, न 'विरक्ति'रित्यनेन साऽभिधेया। किन्तु ज्ञानमूलकस्त्याग एव विरक्तिः । सम्प्राप्याऽपि यदि सर्वमन्ततोगत्वा त्याज्यमेव तर्हि किं तत्र विफलपुरुषार्थस्य प्रयोजनम् ? अत एव विरक्तिः प्रशस्ता वर्णिता।
आवश्यकेष्वपि न यतितव्यमिति नास्त्यत्राऽऽशयः । आवश्यकताप्रेरिते पुरुषार्थे आकाङ्क्षाजन्ये च पुरुषार्थे महदन्तरं वर्तते । आकाक्षाजन्यश्च पुरुषार्थोऽनन्तः, इच्छाया निरवधिकत्वात् । अस्मिश्च जनो जीवनतत्त्वमनुभवितुं विस्मरति । प्रश्नश्च जीवनरसानुभवस्याऽस्ति । तं विमुच्य पदार्थेषु सुखानुभवं मत्वा यां प्रवृत्ति करोति यत्किञ्चिदपि च प्राप्नोति
19 २९ en
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98