Book Title: Nandanvan Kalpataru 2000 00 SrNo 04
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 34
________________ - वस्त्रादिष्वेव तस्याऽभिलाषः किन्तु यथारुचि तत्प्राप्तौ प्रयत्नवान् भवति । एवं गृहेऽपि तदभिलषिते एव तस्याऽऽसक्तिरस्ति । एतत्सर्वं तु प्रायो न शक्यम् । एतदेव चाऽस्ति तस्य दुःखस्य कारणमपि । एका सुन्दरोक्तिरस्ति यद् - "यस्मिन् भवते रुचिर्वर्तते तद् यदि नाऽश्नुयात्, तर्हि यद्भवता प्राप्त तस्मिन्नेव रुचिरुत्पादयतु ।" त्रीण्यपि मनुष्यस्याऽऽवश्यकाङ्गानि सन्ति जीवने। किन्तु, एतेष्वपि यावत्यनिवायता तावदेव तत्प्राप्तौ प्रयत्नः कर्तव्यः । शेषकालेन तु जीवनतत्त्वमेवाऽनुभवितव्यम् । __ कालमेव वयं निर्गमयामः, न तु जीवनं कदाप्यनुभवामः । कस्याञ्चित्प्राप्तावेव वयं विक्षिप्ताः स्मः। एतस्य करुणतमः परिणामस्तु जनस्याऽन्तिमेषु क्षणेष्वनुभूयते सर्वैर्यद्तत्क्षणे तस्य जिजीविषाऽतीवोत्कटा भवति । तस्यामपि न जीवनतत्त्वानुभवस्य काऽपीच्छा प्रवर्तते, किन्तु यस्यां कस्यामपि स्पृहायामपूर्णमनोरथः स तदा जीवनमिच्छति । तत्कालेऽपि न तस्य बोधोपलब्धिः । इतः परा काऽपि विद्यते करुणता किम् ? सिकन्दरो दिग्विजयार्थं प्रस्थितः । एकैकं कृत्वाऽनेकदेशान् जयतस्तस्य विजययात्रा प्रतिदिनमग्रमग्रं प्रवर्धते स्म । एकदा पार्मोनियाख्यो जनस्तमपृच्छत् पार्मोनिया - अधुना किं कर्तुमिच्छति भवान् ? . सिकन्दरः - ईरानदेशं जेष्यामि । पार्मोनिया - पश्चात् ? सिकन्दरः - हिन्ददेशान् पराजेष्ये । पार्मोनिया - तदनु च? सिकन्दरः - सिथियानामदेशं स्वायत्तं करिष्यामि । पार्मोनिया - ततः परम् ? सिकन्दर : - पर्याप्तमेतेन । पश्चादहं तेन विश्वविजेता सम्राड् भविष्यामि । अतो नितरामानन्देन सुखमनुभविष्यामि। श्रुत्वैतत्कथनं सम्राजः पार्मोनियाख्येन तेन जनेनैको वेधकः प्रश्नः कृतः-यद्येतत्सर्वं कृत्वाऽप्यन्ततोगत्वा शान्ति सुखमेव वाऽभिलषति भवान् तर्हि किमर्थमद्यापि हस्तगतां तां नाऽनुभवितुमुत्सुकः? N७ २७ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98