Book Title: Nandanvan Kalpataru 2000 00 SrNo 04
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti
View full book text
________________
न जाता, परं तत्र महती गर्ता दृष्टा, अतः शीघ्रं स्तूपः कारितः । पश्चाद् गुरुपादुकासमलङ्कृता देवकुलिका निर्मापिता ।
आश्चर्यं खलु एतद्-देवकुलिकारचनापूर्वमपि आणंदग्रामसमीपवर्तिनः वल्लभविद्यानगरात् कश्चित् प्राकृतभाषावित् प्राध्यापकः पुनः पुनः तत्र आयाति । स प्राध्यापकः 'गउडवहो' प्रभृतिप्राकृतग्रन्थानां पठनं करोति, कारयति च । यदा च ग्रन्थार्थो यथार्थो न बुध्यते । तदा मनसि मुह्यति, किं कार्यमधुना ? । परमेकदा समाचारपत्रे पठितं स्मरणागतम्, सोजित्रायां प्राकृतभाषाविशारदा जैनाचार्याः श्रीविजयकस्तूरसूरिणः स्वर्गं गताः । अतः स शीघ्रं सोजित्रां समागतः, अग्निसंस्कारस्थलं च गत्वा अदृष्टपूर्वाणां पूज्यानां मौनपूर्वकं ध्यानं स्मरणं च करोति, निजनगरं समागत्य ग्रन्थमवलोकयति, सर्वश्च अर्थो बुध्यते, परमो हर्षश्च भवति । एवं च वारंवारं स तत्रागत्य प्रश्नानां समाधानं कृतवान् । अग्निसंस्कारभूमेरपि कीदृशो महिमा ।
प्रान्ते-उपकारं मन्ये, परमपूज्याचार्य श्रीविजयसूर्योदयसूरीश्वराणां पूज्याचार्यश्रीविजयशीलचन्द्रसूरीश्वराणां श्रीकीर्तित्रस्याश्च येषां हृदयपूर्विकां विज्ञप्ति स्वीकृत्य परमपूज्याचार्यमहाराजैः श्रीविजयचन्द्रोदयसूरीश्वरैः प्रोत्साहित: परमपूज्यगुरुवर्यैः आचार्यश्रीविजयअशोकचन्द्रसूरीश्वरैः च लब्धाशीर्वादोऽहं गुणमहोदधीनां पूज्यप्रवराणां गुणलेशोत्कीर्तनं कृतवान् । यदि प्रस्तावोऽयं न सम्भाव्येत तर्हि लेखनमपि एतत् कथं स्यात् ? तथा च गुरुगणसंस्मरणमपि न भवेत् ।
पूज्यगुरुवरा न प्रत्यक्षा इति न स्वीकार्यम्, अद्यापि ते प्रत्यक्षा एव तेषां गुणगणा अपि दृष्टिसमक्षा एव तेषां गुणसमूहात् स्तोको वा गुणो निजजीवने समागच्छेत् तर्हि गुणोत्कीर्तनमेतत् सफलं स्याद् इत्याशासे ॥
विजयकस्तूरसूरिजन्मशताब्दीवर्षे
वि.सं. २०५६ आषाढे शुदि पूर्णिमायाम्
(गुरुपूर्णिमा)
मुम्बापुरी- मलाड देवकरण-मूलजीजैनोपाश्रये ।
Jain Education International
२५ Cle
विजयचन्द्रोदयसूरिगुरुबन्धुविजयअशोकचन्द्रसूरिचरणकिङ्करः सोमचन्द्रविजयः ॥
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98