Book Title: Nandanvan Kalpataru 2000 00 SrNo 04
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti
View full book text
________________
आसीत् । स्वाध्यायरसिकतया प्रतिक्षणं तेषां करकमलेषु कोऽपि ग्रन्थोऽवश्यं भवेदेव, गोचर्या (भोजनस्य) अनन्तरं शास्त्रान्तरासत्त्वे अखण्डानन्दादिकं गुर्जरमासिकमपि स्यात् । न केवलं पुस्तकानां पठनमानं ते कुर्वन्ति, किन्तु तस्मिन्नेव समये चिन्तनमप्येकाग्रतया कुर्वन्त आसते, ततो ये ग्रन्थाः तैः पठिताः, ते सर्वे चिह्निताः, किञ्चिद् लिखिताश्च अद्यापि वर्तन्ते । एवम् उपयोगिनः पदार्थाः श्लोकाश्च स्वकीये सङ्ग्रहपुस्तके लिखिता अपि विद्यन्ते। शास्त्राणामभ्यासतः अवगाहनतश्च नवीनपदार्थोपलब्धौ परमप्रसन्ना अपि ते भवन्ति स्म । यदुक्तं - "जह जह सुयमवगाहइ, अइसयरससंजायमउव्वं ।।
तह तह पल्हाइ मुणी, नवनवसंवेगसद्धाए॥" इति ॥ द्वे द्वे लोचने सर्वेषां, विद्या तृतीयलोचनम्। चतुर्थं लोचनं धर्मः, ज्ञानी अनन्तलोचनम् ।।इति च ।
एवं च ज्ञानमहोदधितया, अनन्तलोचनतया च तत्रभवन्तस्ते मूर्तिमन्तः चलदग्रन्थालयसमाः, साक्षात् गणकयन्त्रसदृशाश्च समजायन्त।
आगमसमुद्रावगाहनतो, विविधशास्त्रावलोकनतश्च यद् ज्ञानं ते प्राप्तवन्तः, तद् अन्येभ्योऽपि निरन्तरमप्रमत्ततया दत्तवन्तः ॥ यतः
"अन्नदानात् परं नास्ति, विद्यादानं ततोऽधिकम् । अन्नदानान् क्षणं तृप्तिः, यावज्जीवं च विद्यया ॥" इति ।
तस्मिन् तस्मिन् समये आत्मनः शिष्याः प्रथमं मुनिश्रीयशोभद्रविजयादयः, तदनु मुनिश्रीशुभङ्करविजय, मुनिश्रीकुमुदचन्द्रविजय, मुनिश्रीचन्द्रोदयविजय, मुनिश्रीबलभद्रविजय, मुनिश्रीकीर्तिचन्द्रविजय, मुनिश्री सूर्योदयविजयादयः, पश्चाद् गुरुवर्याः मुनिश्रीअशोकचन्द्र विजयादयः, तदनन्तरं मुनिश्री जयचन्द्रविजय, मुनिश्री अभयचन्द्रविजय, मुनिश्रीप्रबोधचन्द्रविजय, मुनिश्रीप्रमोदचन्द्रविजय, मुनिश्रीअजितचन्द्रविजयादयः, मुनिश्री शीलचन्द्रविजयादयः, अन्तिमवर्षेषु मुनिश्रीकल्याणचन्द्र-हींकारचंद्रविजयादयो मादृशाश्च मन्दमतयस्तथा सप्रयासं पाठिताः, यथा ते सर्वे प्रायः अद्य सूरिपदसमङ्कता विद्वांसोऽभवन् ।
पूज्यैराचार्यमहाराजैः आचार्य श्रीविजयचन्द्रोदयसूरीश्वरैः उक्तम्-पूज्यगुरुवरा यथा
19 ११ का
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98