Book Title: Nandanvan Kalpataru 2000 00 SrNo 04
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti
View full book text
________________
परमपूज्यानाम् आचार्यभगवतां श्रीमद्विजयनन्दनसूरीश्वराणां सन्निधौ गमिष्यामः, पश्चात् साबरमतीम् । द्वितीयेऽह्नि, पूज्याः पूज्यवर्याणां निश्रायां समुपस्थिताः । एकस्मिन् एव आसने उभये ते पूज्याः समासीनाः, पृथ्वीतले खलु सूर्यचन्द्रौ सहोदितौ, अनेके साधवः, साध्व्यः, श्रावकाः,श्राविकाच मिलिताः, सर्वे परमहर्षं प्राप्तवन्तः। तदा च सार्द्रनयनैः पूज्यैः निजवस्रस्य ग्रन्थेः, स्वयं लिखितमालोचनापत्रं निष्कास्य पूज्येभ्यो दत्तम्, पूज्यैश्च तेषां कर्णे किमपि कथितम्, अन्योन्यं ते पूज्याः ज्ञातवन्तः, अन्ये सर्वे तु तद् रहस्यं किमपि नाजानन् । तदा च सङ्घकौशल्याधारैः, परमगीताथैः, करुणानिधिभिः पूज्यपादाचार्य श्रीविजयनन्दनसूरीश्वरैः सर्वोत्तमस्य साधकस्य भवभीरुता पापभीरता च कीदृशी? लोकोत्तरे जिनशासने प्रायश्चित्तस्य को महिमा?, आत्मविशुद्धेश्च को लाभः? इत्येतत् सर्वं विस्तरतः प्रतिपादितम् । मिलिताश्च सर्वे नतमस्तकाः ब्रुवन्ति स्म -
अहो! कीदृशी लोकोत्तरशासनस्य महत्ता? अहो! कीदृशाः प्रायश्चित्तदातारः पूज्यवर्याः ? अहो! कीदृशः प्रायश्चित्तगृहीतारः साधकवर्याः ? वयमपि धन्याः, यद् एतादृशं विशिष्टम् आलोचनाव्यवहारं प्रत्यक्षमवलोकितवन्तः ।
(१०) 69) न शोचनीयं मरणं महात्मनाम् ) - यथा गुणशालिनः पूज्याः, तथा पुण्यशालिनोऽपि, अतः तेषामनेके शिष्याः, यथा ज्ञानिनः, ध्यानिनश्च, तथा तपस्विनोऽपि । तेषां मूर्धन्याः । परमपूज्याचार्यश्रीविजयकुमदचन्द्रसूरीश्वराः । तत्सदृशानि महातपस्विरत्नानि अद्य कापि न दृश्यन्ते । यशस्विनो हि पूज्याः, तेषां पुण्यनिश्रायामनेके शासनोन्नतिकरा अञ्जनशलाकाप्रतिष्ठादीक्षापदप्रदानउपधानोद्यापनादिमहोत्सवा निर्विघ्नतया सम्पन्नाः । यत्र यत्र च तेषां निश्रायां प्रभुप्रतिष्ठा सञ्जाता, तत्र तत्र सङ्घस्य ग्रामस्य वाभ्युदयो जातः ।।
निजजीवनान्तिमे नयनवेदगगनकर्णमिते (२०३२) वर्षे श्रीशत्रुञ्जयमहातीर्थे नवीने
७ २२ ee
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98