Book Title: Nandanvan Kalpataru 2000 00 SrNo 04
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 27
________________ सायं प्रतिक्रमणवेलायां पूज्यैरहं आहूतः, प्रोक्तश्च “अद्य प्रतिक्रमणं मया सार्धं कर्तव्यम्" । अहम् अहोभाववान् सञ्जातः, चमत्कृतश्च । प्रतिक्रमणवेलायां चैत्यवन्दनानन्तरं प्रतिक्रमणसूत्राणां पाठः पूज्यैरेव समारब्धः । मया पूज्या विज्ञप्ताः, नैतद् युक्तं यद् भवन्तः प्रतिक्रमणं कारयेयुः । तदा पूज्याः प्रोक्तवन्तः त्वादृशो बालश्रमणो लुञ्चनं कारयति, तस्य प्रतिक्रमणं कारयितुं लाभोऽस्माकं कुतो भवेत्? । “अन्येषाम् आराधना कारयितव्या" इत्यस्माकं कर्तव्यम् । अतो "वयमेव प्रतिक्रमणं कारयिष्यामः" इति । अहो ! पूज्यानां कीदृशो वात्सल्यपूर्णोऽनुपमो व्यवहारः । वयमपि भाग्यवन्तो यद् अस्माकम् एतादृशानां पूज्यगुरुवराणां समायोगः समुपलब्धः । ___ (९) 69 समतावन्तो महर्षयः ७) श्रूयते खलु "समुत्पद्यन्ते गुणाः सर्वे, स्वस्वकर्मानुसारतः"। स्वकीयां क्रियामाश्रित्य अन्ये सर्वे गुणाः समुद्भवन्ति, परं समता, सरलता, सहिष्णुतादयः स्वतः प्रादुर्भवन्ति । सुखे दुःखे, प्रिये अप्रिये, रागिणि द्वेषिणि एवंप्रभृतिषु यः समचित्तो भवति स समतावान् । __ ये शान्ताः, कान्ताः, दान्ताः, साधकाश्च भवन्ति ते महर्षयः । महर्षयो न वदन्ति, तेषां मौने एव महाशक्तिः, तेषां मौनमेव सर्वार्थसाधकम् । तथापि कथंचित् ते यद् वदन्ति, तदेव भवति । यदुक्तम् - लौकिकानां हि साधूनामर्थं वागनुवर्तते । ___ ऋषीणां पुनराद्यानां, वाचमर्थोऽनुधावति ॥ इति (उत्तररामचरिते भवभूतिः) पूज्यगुरुवरा अप्येवमेव समताधारिणो महर्षयः । प्रायस्तु मौनमेव भजन्ति, यदि सति कार्ये ब्रुवन्ति, तर्हि हितं, मितं, पथ्यं, सार्थकमेव। शरीरप्रातिकूल्येऽपि अपूर्वसमताधारकाः । तेषां देहचिन्तातोऽपि विशेषा साधनाचिन्ता । प्रसङ्गाद् एतस्मात् पष्टीभविष्यति - चन्द्रवेदगगननयनयुजि (२०३१) विक्रमाब्दे आश्विनमासे शुक्लैकादश्यां रात्रौ ७ २० er Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98