Book Title: Nandanvan Kalpataru 2000 00 SrNo 04
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 26
________________ यदुक्तम्- "विकारहेतौ सति विक्रियन्ते, येषां न चेतांसि त एव धीराः " ॥ गीतायामपि - " वशे हि यस्येन्द्रियाणि तस्य प्रज्ञा प्रतिष्ठिता " ॥ इति च । पूज्यानामनासक्तिप्ररूपकः प्रसङ्गश्चैषोऽनुभूतः - पूज्या नित्यं प्रातः काले श्रीसूरिमन्त्राराधनां कुर्वन्ति स्म । एकदा जापसमये विशिष्टध्यानतः, यथा परमकृपावन्तः अर्हन्तः यत् समवसरणमारुह्य विश्वकल्याणकरीं देशनां ददति, तथा तत् समवसरणं यथास्वरूपं दृष्टं, हृदये अङ्कितम्, अतोऽन्तःकरणे परमाह्लादः समुत्पन्नः । तदा आजीवनगुरुचरणसेविनः गुरुकृपापात्रा बान्धवयुगला: विजयचन्द्रोदयसूरीश्वराः, पंन्यासअशोकचन्द्रविजयाश्च पूज्यानां . परमप्रसन्नाकृतिं प्रेक्ष्य पृच्छन्ति स्म - गुरुवर्याः ! अद्य भवतां मुखारविन्दे किमर्थमियती प्रसन्नता ? | भगवन्तः प्राहुः 'अद्य श्रीसूरिमन्त्राराधनासमये समवसरणं दृष्टम्, तदेव प्रसन्नताकारणम्, यदि संयोगः सानुकूलः स्यात्, तर्हि एतादृशं समवसरणं कारयितुमुचितं कार्यम्” । परं शिष्याणामादेशो न कृतः, एवं कर्तव्यम्, इत्थं करणीयम् इत्यादि । अद्य तत्फलस्वरूपं पादलिप्तपुरे गिरिराजोपत्यकायां विशालं श्री १०८ जैनतीर्थ दर्शनसमवसरणमहामन्दिरं दरीदृश्यते । 64 आर्षाणाम् आबालवृद्धैः व्यवहारोऽपि लोकोत्तर:, प्रसङ्गाद् एतस्मात् ज्ञायते । पूज्यै: स्वाध्यायकाले विविधेभ्यो ग्रन्थेभ्यो या या गाथाः समुपलब्धाः, ताः ताः सर्वाः विषयक्रमानुसारं सङ्गृहीता:, तासां च सङ्ग्रहः संस्कृत-गुर्जरभाषानुवाद समन्वितः “ पाइयविन्नाणगाहा"नामक पुस्तकरूपेण प्रकाशितः । तस्मिन् प्रस्तावनारूपपत्रे पूज्यपंन्यासप्रवरश्रीशीलचन्द्रवजयगणिवरै: (पूज्याचार्यश्रीविजयशीलचन्द्रसूरीश्वरैः) परमसाधकानां पूज्यानां साधना, भावना, वत्सलता च कीदृशी ? इत्यादिकं सविस्तरं वर्णितम्, पूज्यानां प्रासादिकाः, तात्त्विकाः, सात्त्विकाश्च प्रसङ्गाः सुचारुतया वर्णिता: (समये तत्पत्रमवश्यं द्रष्टव्यम्) । तत्र तैः स्वयमनुभूतः प्रसङ्गो लिखित: - गगननयननभोनेत्रमिते (२०२०) वर्षे भावनगरसमवसरणवंडाख्ये उपाश्रये आचार्य श्रीविजयविज्ञानसूरीश्वराः, आचार्य श्रीविजयकस्तूरसूरीश्वराः सर्वेऽपि आसन् । मम तु बाल्यावस्था, मया पंन्यास श्रीचन्द्रोदयविजया: (विजयचन्द्रोदयसूरिवराः) विज्ञप्ताः मम केशलुञ्चनं यूयमेव कुरुत । लुञ्चनं सुष्ठु जातम् । Jain Education International १९ othe For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98