Book Title: Nandanvan Kalpataru 2000 00 SrNo 04
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti
View full book text
________________
कालान्तरे च सूरिपदविभूषितास्ते गुरुशिष्याः सपरिवाराः सूर्यपुरं समागच्छन् । कस्यापि सङ्घस्य कतिचित् श्रावकाः शासनस्य विशिष्टकार्यार्थं समायाताः । श्रीविजयविज्ञानसूरिवराः श्रान्ताः, ततस्ते श्रावकाः पूज्यानां समीपमगच्छन्, पूज्यगुरुवरैस्तु सरलतया तेषां सर्वा विज्ञप्तिः स्वीकृता । एतत् श्रुत्वा श्रीविजयविज्ञानसूरिभिर्विचारितं नैतद् योग्यम्, अतो गमनकाले ते श्रावका आहूताः, तदा ते साक्रोशमुक्तवन्तः “कस्तूरविजयः किं जानाति? स तु मूर्योऽस्ति" इति । श्रावका मूका एवागच्छन् । ___गते काले तत्रैव विद्वांसः श्रावकाः आगमिकप्रश्नार्थं पूज्याचार्यश्रीविजयविज्ञानसूरीश्वरपार्श्वे समायान्, पूज्यैः सर्वं श्रुतम्, पश्चाच्चोक्तम्, “किमर्थं मत्समीपम् आगताः? एष आगमावतारो वर्तते, तत्पाद्यं गच्छन्तु" । पूज्यगुरुवराणां मुखारविन्दे सरलतया मूर्खकथनकाले न विषादः आगमावतारत्वकथनसमये प्रसन्नता वा न, यद् गुरुभिरुक्तं तत् प्रमाणम्। __कदा कदा केचित् पण्डितम्मन्या पुरुषाः समागच्छन्ति, तर्हि गुरुभक्तितः शिष्याः पूज्यान् कर्णे कथयन्ति - भवन्तं वञ्चयितुमेते समायाताः, ततः सावधानीभूय भवन्तः तिष्ठन्तु, तदा ते पूज्याः कथयन्ति, मां केऽपि न वञ्चिष्यन्ति, ये मां प्रतारयिष्यन्ति ते एव वञ्चिष्यन्ते । अहो ! कीदृशी सरलता!। ____ अत एव निजसमुदायवर्तिनः, समुदायान्तरवर्तिनश्च साधव्यः, साधवः, श्रावकाः, श्राविका वा एवमाहुः - पूज्याः खलु भद्रकाः, मन्यामहे यत् - पञ्चमारके चतुर्थारकसाधूनां दर्शनमस्माकं सौभाग्येन सञ्जातम्; महाविदेहे श्रीसीमन्धरस्वामिनां समीपं गच्छन्तः महापुरुषा अस्मत्पुण्ययोगतो भरतक्षेत्रं समागताः, युगलिकसदृशा भद्रका एते पूज्याः । अतस्तेषां पूज्यानां "धर्मराजाः" इत्येवं प्रसिद्धिः लोके जाता ।।
अहो ! पूज्याः साधुत्वेऽपि विद्वांसः, विद्वत्त्वेऽपि सरलाः, सरलत्वेऽपि गीतार्थाः, गीतार्थत्वेऽपि निरभिमानिनः । एवंविधाः ते कथं न सर्वैः आदरणीयाः वन्दनीयाश्च? ।
9 १७
"
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98