Book Title: Nandanvan Kalpataru 2000 00 SrNo 04
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 21
________________ - श्रीसिद्धहेमशब्दानुशासनाष्टमाध्यायरूपं प्राकृतव्याकरणमनुसृत्य स्वपूज्यगुरुवरनामसमलङ्कता "प्राकृतविज्ञानपाठमाला" महाव्रतनिधिनन्दचन्द्रयुते (१९९५) विक्रमाब्दे तत्रभवद्भिः पूज्यैर्विरचिता । सम्प्रति सर्वे साधवः, साध्व्यः, प्राकृतविद्यार्थिनश्च तामेव पाठमालां पठन्तः प्राकृतभाषायां प्रवेशं कुर्वन्ति, पूज्यगुरुवराणां नाम चाहनिशं स्मरन्ति । अध्ययनग्रन्थत्वेऽपि अद्ययावत् तस्याः चतुर्थी आवृत्तिः प्राकाश्यं नीता । विशिष्टैः साधुभिः, प्रो. अभ्यङ्कर, पं. लालचन्द्र-भगवानदास-गांधी प्रभृतिभिविद्वद्भिश्च मुक्तकण्ठं सा प्रशंसिता । चतुर्थ्यामावृत्ती विद्वद्वर्यैः पूज्यमुनिराजश्रीजम्बूविजयजीमहाराजैलिखितम् - "एतस्याः पाठमालाया अभ्यासेन प्राकृतसाहित्ये सरलतया सफलतया च प्रवेशो भवति" इत्यादि। पूज्यगुरुवराणां कालधर्मानन्तरं प्राकृतविज्ञानपाठमालाया मार्गदर्शिकापि प्रकाशिता । तेषामेव गुरुवराणां जन्मशताब्दीवर्षेऽस्मिन् तत्रभवद्भिः पूज्यैरेव संशोधित "प्राकृतविज्ञान बालपोथी" नाम्न: पुस्तकस्य प्रथमो द्वितीयो भागश्च प्रकाशितः । प्रथम-द्वितीय भागयोः द्वितीयावृत्तिश्च प्रकाशिता । तृतीयः चतुर्थो भागोऽपि यथा शीघ्रं प्राकृत-संस्कृत-गुर्जरआङ्गलभाषासमन्वितः प्रकाशिष्यते । __ "पाइयिवन्नाणकहा" भागः प्रथमो द्वितीयश्च - छात्राणां प्राकृतसाहित्ये शीघ्रं गति: स्यादिति पूज्यैः आगमिकलौकिकादिसाहित्योद्धृता अष्टोत्तरशतकथाः प्राकृतभाषया निबद्धाः, सिद्धमन्त्रस्वरूपं गुरुवराणां नाम चानुसृत्य “पाईयविन्नाणकहा - भा. १.२" रूपेण प्रकाशिता । तस्याः प्रथमे भागे पञ्चपञ्चाशत् कथाः, द्वितीये भागे चावशिष्टा: त्रिपञ्चाशत् कथाः समाविष्टाः । प्रत्येकं कथाः व्यवहारे, व्याख्याने, अभ्यासे, प्रसङ्ग। न्तरेषु चानेकरीत्या अत्युपयोगिनी । तस्या द्वितीयभागस्य आमुखे पूज्यानां बाल्यत एव परमसुहृद्भिः । आचार्यश्रीविजयधर्मधुरन्धरसूरिभिरुक्तम् “विजयकस्तूरसूरीश्वरा: अनुभववृद्धाः, प्राकृतभाषाया विद्वांसः, व्याकरणागमादिविषयेषु पूर्णतया प्रभुत्वधारकाश्च, तैः प्राकृतभाषायां सुवाच्यतया ग्रथिताः कथाः हेतुपूर्विकाः, सारान्विताश्च वर्तन्ते" इति । __ श्रीभोगीलाल जे. सांडेसरा महोदयैः ओरिस्सा राज्ये मिलितायां विश्वप्राकृतपरिषदि कथितम्- "प्राकृतभाषाविदो जैनाचार्या अनेके समजायन्त, वर्तमानकाले च Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98