Book Title: Nandanvan Kalpataru 2000 00 SrNo 04
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 19
________________ ज्ञानवन्तः, तथा ज्ञानलब्धिमन्तोऽपि । दीक्षायाः प्रारम्भेषु वर्षेषु वयं तेषां पार्श्वे परिशिष्टपर्वं पठामः स्म, तदा पूज्याचार्यश्रीविजयविज्ञानसूरिवराः प्रोक्तवन्तः-एवं गुरुसमीपे सर्वं पठित्वा त्वं कथं विज्ञो भविष्यसि, स्वयमेव अभ्यासः कार्यः, यन्नावबुध्यते तत्र चिह्न कार्यम्, पश्चात् तव गुरूणां समीपे प्रष्टव्यम् । तथा कृत्वा गुरूणां समीपं गतः, सर्वं पृष्टम्, गुरुवराः स्मित्वा प्राहुः किमेतत् सर्वं न बुध्यसे?, इत्युक्त्वा मस्तके टप्पलिकां ददति स्म, तदैव तत् सर्वमवबुद्धम् एवं च बहुभिर्बहुशः अनुभूतम् । पूज्यगुरुवर्यैः (आचार्यश्रीविजयअशोकचन्द्रसूरीश्वरैः) कथितम्, गुरुवराः प्रोक्तवन्त:यस्या गाथायाः, यस्य विषयस्य वा अर्थो नावबुध्येत, तदा पूर्वापरसम्बन्धः पुनः द्रष्टव्यः, तथा चावश्यं सर्वं स्मरणमागच्छेत् । प्रायः सुरेन्द्रनगरे गगननयनभोनेत्रमिते (२०२०) विक्रमाब्दे चातुर्मासे षष्ठकर्मग्रन्थस्य वाचना प्रचलति स्म । गुरुवराः सर्वे भावनगरं स्थिताः । अत्र च वाचनायां कस्याश्चिद् गाथाया अर्थो यथार्थो न अज्ञायत, "पूर्वापरसम्बन्धो द्रष्टव्यः" इति गुरुवरवाक्यं स्मरणमागतम्, तथैव कृते सर्वोऽर्थो यथार्थतयाज्ञातः । संयमस्य प्रारम्भेषु दिनेष्वेव मामाख्यातवन्तः पूज्याः, किं तेऽभिलषितम् ? विद्या वा, सुखं वा? विद्या चेत्, तर्हि सदैषः श्लोकः स्मरणीयः "सुखार्थी चेत् त्यजेद् विद्याम्, विद्यार्थी चेत् त्यजेत् सुखम् । सुखार्थिनः कुतो विद्या? विद्यार्थिनः कुतः सुखम् ? ।।" इति । एवं च यस्य यद् योग्यम्, तदवश्यं तस्मै ते कथितवन्तः, तेन च यथा तस्य श्रेयोऽपि अवश्यं भवेत्। तत्रभवद्भिः पूज्यैः न केवलं निजशिष्याः, परंतु अनेके परसमुदायवर्तिनः साधवोऽपि अध्यापिताः । सर्वेऽपि ते ज्ञानदातृत्वेन परमोपकारितां दर्शयितुं पूज्यान् सदा "गुरुजी" इत्येवं परमादरणीयतया कथितवन्तः । तेषां सकाशादन्येऽपि पण्डितश्रीभगवानदास-हरखचंद, प्रो.श्रीहीरालाल-रसिकलाल-कापडियादयः साक्षराः, गुर्जरराज्यवित्ताध्यक्ष-कान्तिलाल-घिया प्रभृतयः राजपुरुषाः, हाईकोर्ट न्यायाधीश-साकलचंदभाई शेठ विरमगामवाला, सूरचंदभाई बदामी, झवेरचंदभाई मास्तरप्रमुखाः, लल्लुभाई-नेमचंद-दलाल, जादवजीभाई-अमरचंद 9 १२ er Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98