Book Title: Nandanvan Kalpataru 2000 00 SrNo 04
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti
View full book text
________________
-
-
-
यदस्य बालकस्य लग्नकुण्डल्यां केन्द्र सूर्य-बुध-चन्द्राः, धनराशौ च बृहस्पतिरित्याधुच्चतमो ग्रहयोगः । अतः खलु युवां धन्यौ, यद् युवयोः कुले एतादृशः पुत्ररत्नः समागतः, स युवयोः कुलदीपकः, जगदुपकारकश्च भविष्यति । पितृभ्यां तस्य "कान्तिलाल" इत्यभिधानं कृतम् । तस्य च रतिभाई, हिम्मतभाई इति बन्धू आस्ताम् ।
विद्योपार्जनकाले च मनसुखभाई-शेठाख्ये पोले जैनशालायां स पितृभ्यां प्रेषितः । खंभातनिवासिनः उमेदचंदभाईशिक्षकस्य समीपे व्यवहारिकोऽभ्यासः कारितः । परं तस्मै बालकाय व्यवहारिकाभ्यासो न रोचते अतः, भट्ठीनीबारीतिनामपोलवर्तिनि श्रीवीरविजयोपाश्रये वयोवृद्धो मुनिश्रीप्रतापविजयाख्यः साधुर्वर्तते, स तस्य समीपेऽहनिशं याति, शुभाशीर्वादं च गृह्णाति । एवं बाल्यत एव स साधूनां दर्शनं सेवां च करोति । विशेषतश्च वयोवृद्धाः पूज्यपादा आचार्यश्रीविजयसिद्धिसूरीश्वराः (बापजी महाराज) तस्य संसारिपितृव्याः, परमतपस्विनी साध्वी श्रीशान्तिश्री च संसारि-पितृष्वसा, आस्ताम् । एतादृशस्य कान्तिलालस्य चित्तं संसारे कथं रमेत? |
तदा सर्वत्र प्रसिद्धाः शासनसम्राड्-आचार्यश्रीविजयनेमिसूरीश्वरा राजनगरे पांजरापोलवर्तिन्युपाश्रये समागताः । षोडशाब्दिको युवा कान्तिलालस्तत्र ययौ । पूज्यपादानां च दर्शनेनान्तरात्मनि अतीवाह्लादः सञ्जातः । तदैव वात्सल्यवारिधीनां पंन्यासप्रवराणां परमपूज्यश्रीविज्ञानविजयगणिवराणां समागमोऽभवत् । दिने दिने सम्पर्को वर्धते स्म, वर्धमानश्च साधूनां सम्पर्कः समर्पणे परिणमते "शिष्यस्तेऽहं, शाधि मां, त्वां प्रपन्नम्" ॥
(३) ____७) गुरुकृपा हि केवलम् (७) परमपूज्यपादा आचार्यश्रीविजयनेमिसूरीश्वराः सपरिवारा राजनगराद् विहत्य क्रमशो राजस्थान-मरुभूमि गतवन्तः । तत्र मेवाडभूमौ नावलीस्टेशनादूरवर्तिनि गोधूमक्षेत्रे रसतुरगनारदेन्दु (१९७६)मिते विक्रमाब्दे फाल्गुनमासे कृष्णपक्षे तृतीयायां तिथौ राजनगरात् पलायित्वा समागतः कान्तिलालः पंन्यासप्रवरश्रीविज्ञानविजयानां सन्निधौ दीक्षितवान् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98