Book Title: Kumarpal Pratibodh Prabandh
Author(s): Mafatlal Zaverchand Gandhi,
Publisher: Mafatlal Zaverchand Gandhi
View full book text
________________
प्रतियोध
कुमार०
ततस्त्रयोदशवषोणि चामुंडराजस्य राज्य, पड़ मासान् यावद् राज्यं बल्लभराजस्य, एकादशवषोणि षण्मासान् दुले
प्रबंधः भराजराज्यं । स स्वपुत्रं (नप्तार) श्रीभीमदेवं स्वराज्ये न्यस्य स्वयं वैराग्यवान तीर्थयात्रां कुर्वन् मालवके गतः। श्रीमुंजेन "छत्रादिक मुश्च वा युद्धं कुरु" इत्युक्तो धर्मान्तरायं मत्वा प्रशमवान् कार्पटिकवेषेण यात्रां कृत्वा परलोकमसाधयत् । तत्स्वरूपं भीमेन ज्ञातम् । ततः प्रभृति राजद्वयविरोधः, भोजराजेन सार्ध भीमदेवस्य । तस्य द्वे राझ्यौ एका बकुलदेवी नाम्नी पण्याङ्गना पत्तनप्रसिद्धरूपपात्रं गुणपात्रं च । तस्याः कुलयोषितोऽपि अतिशायिनी प्राज्यमर्यादां नृपतिनिशम्य तवृत्तपरीक्षानिमित्तं सपादलक्षमूल्यां क्षरिका निजानुचरैस्तस्यै ग्रहणके दापयामास । औत्सुक्यात्तस्यामेव निशि बहिरावासे प्रस्थानलग्नमसाधयत् । नृपतिर्वषेद्वयं यावत मालवमण्डपे विग्रहाग्रहात्तस्थौ । सा तु बकुलदेवी तहत्तग्रहणकप्रमाणेन तद्वर्षद्वयं परिहतसर्वपुरुषसंगाऽभंग शीललीलयैव तस्थौ । निस्सीमपराक्रमो भीमस्तृतीय स्वस्थानमागतो जनपरम्परया तस्यास्तां प्रवृत्तिमवगम्य तामन्तःपुरे न्यधात् । तंदगजः क्षेमराजः। द्वितीया राज्ञी उदयमती । तस्याः सुतः कर्णदेवः ।
"क्षेमराजकर्णदेवौ, तत्पुत्रौ भिन्नमातृकौ । परस्परं प्रीतिभाजौ. यथा राघवलक्ष्मणौ ॥१॥ कर्णमातुस्ततस्तेन, भीमदेवेन चैकदा । प्रतिपन्न राज्यदानं, श्रीकर्णस्य लघोरपि ॥२॥ वशीकमिव स्वर्ग, भीमदेवे दिवंगते । द्विचत्वारिंशद्ववर्षाणि, राज्यं कृत्वा मनोरमम् ॥३॥ सौन्दर्यवर्यगांभीर्य-प्रज्ञाबुद्धिगुणोत्तमैः । राज्यक्षमे क्षेमराजे, कर्णो राज्यं न वाञ्छति ॥ ४ ॥
॥३॥ राम इव क्षेमराजः, स्मृत्वा भाषां पितुस्ततः । कर्ण महोपरोधेन, स्वयं राज्ये न्यवीविशत् " ॥५॥ For Personal & Private Use Only
www.brary.org
Jain Education international

Page Navigation
1 ... 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156