Book Title: Kumarpal Pratibodh Prabandh
Author(s): Mafatlal Zaverchand Gandhi, 
Publisher: Mafatlal Zaverchand Gandhi

View full book text
Previous | Next

Page 117
________________ तदाकर्ण्य भगवन् ! किमुच्यते युष्मच्छिष्याणां विदुषां सरस्वतीसर्वस्वमुषां प्रथममहमेव भगवदाज्ञया पूरयामिति प्रमाणं कृत्वा कपर्दीश्रावकः सर्वान् निवार्य पूरयामास । "नैतस्याः प्रभृति द्वयेन सरलो शक्येऽपि धातुं दृशौ, रुद्धाक्षी च विलोकते शशिमुखी ज्योत्स्नांवितानैरिव"। इत्थं मध्यगता सखीभिरसकृत् दृग्मीलना केलिषु योषिद्वा रुदती मुखं च नयने स्वे गर्हते कन्यका ॥१॥ श्रीहेमसूरिसेवापरश्रावकस्यापि शीघ्रकवितां दृष्ट्या विस्मयस्मेरः शोभनोऽयं वयं समुत्सुकाः स्मेत्युक्त्वा गतः। राज्ञांत्यजान् निमंत्रापितस्तेन मानितं निमंत्रणं, द्विजानां विमर्शः, कथं अंत्यजगृहे भोजनं करिष्यतीति । सहस्रलिंगसरोवरटोडकयोर्मोचितं भोज्यं । राजा तु राजपरिपाटिकामिषेण सरोवरसमीपे समायातः। देवबोधिः स्नानार्थ जलांतः प्रविष्टः। कृष्णश्वा भूत्वा निर्गतो भुक्तं तद् भोजनं पुनः जलांतः प्रविश्य देवबोधिर्भूत्वाऽगात् । राज्ञश्च सर्वेषां लोकानां विस्मयोऽभूत् ।। राज्ञा निजावासे निमंत्रितः तस्य विविधा भक्तिः कृता । अन्यदिने देवार्चावसरे सप्तपूर्वजानां मस्तकानि अतिनिकटरावृत्तानि पोचुः-हे वत्स ! अस्माभिस्तुभ्यं राज्यं दत्तं । त्वं महतीं प्रौढी नीतोऽस्मन्मार्ग मुक्त्वा जैनोऽभूत् । तेन राज्यं पश्चाद्ग्रहीष्यामः, सप्तमे नरके पातिता वयं, त्वया किं कृतं । त्यक्तः स्वकुलाचारः त्यजाऽधुनापि कुमार्गप्रवृत्ति । एतदाकर्ण्य राजा विज्ञातपरमार्थः किंकर्त्तव्यताजडोऽभृतस । विषादमिदमचिंतयत् । अहो सकलशास्त्रसंवादसुंदरोऽयं जीवदया धर्मः सर्वप्राणिप्रियः कथं कुमार्गः कथ्यते ? किमत्र तत्र । तस्मिन् दिने लोकमध्ये महाप्रभावोऽभूत् मिथ्यादृगशासने । द्वितीयदिने व्याख्यानावसरे प्रथमं परिमलः सुगंधः पश्चाद्विमानं विमानादुत्तीर्य मूलराजप्रभृतयः पूर्वजा गुरुन्नम-12 Jain Edua emational For Personal & Private Use Only www . brary.org

Loading...

Page Navigation
1 ... 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156