Book Title: Kumarpal Pratibodh Prabandh
Author(s): Mafatlal Zaverchand Gandhi, 
Publisher: Mafatlal Zaverchand Gandhi

View full book text
Previous | Next

Page 115
________________ BREAKKCEEEEERBERBER33 ततः श्रीसूरिभिः प्रत्युत्तरमदायि 1"सिंहोचली द्विरद०" ॥१॥ इति श्रुत्वा राजा चत्कृमतः । नवीनं व्याकरणं कृतं एते ते हेमसूरयः इति श्रुत्वा राज्ञा श्रीकुमारपालेन श्रीमोढज्ञातीयानां लोकानां चामराः | दत्ताः । इति दीक्षाप्रबंधः। अन्यदा श्रीगुरवः सभायां व्यसनानि निराकर्तुं प्राहुः 'द्युतं च मासं च सुरा च वेश्या, पापार्द्धि चोरी परदारसेवा। एतानि सप्त व्यसनानि राजन् ! घोरातिघोरं नरकं नयन्ति॥१॥ 'द्युताद्राज्यविनाशनं नलनृपः प्राप्तोऽथवा पाण्डवाः, मद्यात्कृष्णनृपश्च राघवपिता पापर्धितो दूषितः।। मांसात् श्रेणिकभूपतिश्च नरके चौर्याद्धतो मंडिको, वेश्यातःकृतपुण्यको, गतधनोऽन्यस्त्रीमृतो रावणः ॥२॥ ततः सभायां एतानि सप्तकथानकानि व्यसनदोषप्रकाशकानि श्रीगुरुमुखेन श्रुत्वा राजा लोकानां ज्ञापनाय सप्तव्यसनानि मृन्मयानि कारयित्वा रासभेष्वारोप्य राजमार्गे भ्रामयित्वा लुकुटादिभिर्हन्यमानानि श्रीपत्तनात निजदेशाच्च निरवासयत् । अथान्यदा श्रीजिनधर्माभिमुखं नृपं ज्ञात्वा श्रीपर्वताद् भैरवानंदनामायोगी पंचशतयोगिपरिवृत्तः श्रीपत्तनमागतः। संमुखगमने पृष्टाः श्रीसूरयः प्राहुः । शोभनमिदं परं परीक्षा क्रियते । ततो गम्यते । समस्यापदं राजपुरुषकरेण प्रेषितं । १ सिंहो बली द्विरदशूकरमांसभोजी संवत्सरेण रतिमेति किलैकवारम् । पारापतः खरशिलाकणभोजनोऽपि कामी भवत्यनुदिनं वद कोऽत्र हेतुः ॥ Jan Educ a tional For Personal & Private Use Only www. f ary.org

Loading...

Page Navigation
1 ... 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156