Book Title: Kumarpal Pratibodh Prabandh
Author(s): Mafatlal Zaverchand Gandhi,
Publisher: Mafatlal Zaverchand Gandhi
View full book text
________________
कुमार०
प्रतिबोव प्रबंध:
॥५४॥
हिंसा पिता पापनामा नरेन्द्रवरं विलोकयन वाणारस्यां जयचंद्रनृपं सप्तशतीयोजनभूमिनाथं दृष्टवान् । अन्यराजकं दासमिव मन्यमानश्चत्वारिंशच्छतानि गजेंद्राः षष्टिलक्षाश्च वाजिनः द्वादशशतानि पित्तलमयानि श्वानानि, गंगायमुनायष्टीविना क्वापि गन्तुं न शक्नोति तेन पङ्गराजेति बिरुदं वहति । तस्य गोमती दासी ६०००० अश्वेषु प्रक्षरी निवेश्याभिपेणयंती परचक्रं त्रासयति, राज्ञः श्रम एवकः, तत्र वाराणस्यां तस्मै नृपाय ददौ ।
सा वार्ता श्रीकुमारपालेन श्रुता, मदीयपत्न्या गृहांतरमकारि । ततो दूनमनाः निजप्रधानपुरुषाः हेमकोटिद्वयं हयसहस्रद्वयं चित्रपट्टमेकं समर्प्य प्रेषिताः। तैस्तत्र गर्बहद्रव्यव्ययेन कैवर्तकाखेटकादिपघकान् कृत्वा तत्कर्म निवारितं । कालेन राज्ञा जयचंद्रेण ज्ञातं । तत्पृष्टा ग्राममहत्तरास्तैः प्रधानपुरुषाः कथिताः ततो राज्ञाऽऽहुताः प्रधानपुरुषा जयचंद्रसभायां गताः । श्रीकुमारपालप्रेषितं हेमकोटिद्वयं हयसहस्रद्वयं चित्रपटादिकं प्राभृतं समर्पितं । राजा जयचंद्रो यावत् पट्टमुद्घाटय पश्यति । तावत्तत्र स्वमूर्ति-श्रीकुमारपालमूर्ति-जीवहिंसादिकपापफलं नारकिकछेदनभेदनादियातना-कुंभीपाक-वैतरणीतारण-कूटशाल्मलिवृक्षोल्लंबनाऽसिपत्र-वनप्रवेशनादिकं दृष्ट्वा चित्रस्थं संजातमहापापभयः. प्रकम्पमानः शरीरः । पुनः पुरः सम्यगजीवरक्षादि पुण्यफलं-स्वर्गविमानं दिव्यदेह-देवांगना-दिव्याभरणगीतनृत्यवाद्यविविध-क्रीडारूपसौभाग्यश्रृंगारभोगादिकं चित्रस्थं दृष्ट्वा विस्मयस्मेरमनाः प्रधानपुरुषाणां प्रसादमकरोत् । जीवरक्षार्थ श्रीकुमारपालेन प्रेषिता वयमिति स्वरूपे प्रोक्ते जयचंद्रनृपः स्वदेशे सर्वत्र जीवरक्षामकारयत् । १८ लक्षजालप्रज्वालनं कृतं, द्विगुणं च प्राभृतं श्रीकुमारपालाय प्राहिणोत् । पुनरपि मारिः पितुः पार्श्वमगात् । ततो म्लेच्छकुले गर्जनपुरे दत्ता। अथ वर्षासु कटकारंभे नियमिते तवृत्तान्त ज्ञात्वा प्रापराभवसंजातामर्षों गर्जनपुरेशः त्वामभिषेणयितुमागच्छती
wi
Jain Eda
t emational
For Personal & Private Use Only
brary.org

Page Navigation
1 ... 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156