Book Title: Kumarpal Pratibodh Prabandh
Author(s): Mafatlal Zaverchand Gandhi, 
Publisher: Mafatlal Zaverchand Gandhi

View full book text
Previous | Next

Page 131
________________ "अन्यदासुखस्वप्तस्य भूपतेः क्वापि देवता । निश्यऽजनि प्रत्यक्षा, श्यामसर्वागमंडना ॥१॥ भूपृष्टाऽवदत् साऽपि भूताधिष्ठातृदेवता । स्वदंगे प्रविविक्षामि, पूर्वशापात्तवान्वये ॥२॥ गतायामथ तस्यां स चिंतार्तोऽभून्नृपः प्रगे । सूरिपृष्टोऽवदत् सर्व, तमूचे सूरिरप्यथ ॥३॥ भावीभावो भवत्येव नान्यथा सोमरैरपि । पूर्व कामलदेव्या यत्, शापितो मूलभूपतिः ||४|| परं पुण्यं कुरु यतः - दीपो हन्ति तमस्तोमं, रसो रोगभयं यथा, सुधाविन्दुर्विषावेगं धर्मः पापहरस्तथा ||५|| रात्रौ महाव्यथाऽभूत् पृष्टे राज्ञि काकणोपमः कीटः प्रादुरभूत् । प्रतिकारैरनुपशमने श्रीगुरवः समायाता । राजानं दुखा दृष्ट्वा प्राहु:-- " "सृजति तावदशेषगुणाकरं पुरुषरत्नमलंकरणं भुवः । तदनु तत्क्षणभंगिकरोति, वद हह कष्टमपण्डितता विधेः " ॥१॥ राज्ञः श्रीगुरुदर्शनेन क्षणं सुखमभूत् । सूरिः सचिवं प्रत्याहुः, मंत्रिन् ! अपायानामुपायाः स्युः बहुरत्नावसुंधरा । मंत्री प्राह भगवन् ! अनुस्वर्ण धातवः अनुचंदनं काष्ठानि तथाऽनुपूज्यान् कलाकोविदाः । "यथा तमोंतको भानुः, सुधा सर्वविषापहा । जगत्संजीवनो मेघ स्तथा राज्ञो गुरुर्भवान्" ॥१॥ श्रीगुरुरभ्यधात् नात्र मंत्र तंत्र भैषज्य प्रभावप्रसरः किन्तु बुद्धिप्रकाराऽस्ति । यदि राज्यमन्यस्य कस्यापि दीयते तदा राज्ञः कुशलं स्यात् परं नायं धर्मः श्रीजिनतत्त्वविदां । यतः -- सव्वो न हिंसियव्वो, जह महीपालो तहा उदयपालो । न य अभयदाणवइणा, जणोऽवमाणेण होइव्वं ॥ For Personal & Private Use Only Jain Eduntemational www.janelibrary.org

Loading...

Page Navigation
1 ... 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156