Book Title: Kumarpal Pratibodh Prabandh
Author(s): Mafatlal Zaverchand Gandhi, 
Publisher: Mafatlal Zaverchand Gandhi

View full book text
Previous | Next

Page 155
________________ 'अर्चामोऽबुदमौक्तिकैयदि तदाऽप्यानृण्यमस्तु क्य नो । विश्वैश्वर्यदजैनधर्मविविधाऽम्नायाप्तिहेतूह्यम्' | 'श्रीहेमसूरिप्रभुपादपद्मं वंदे भवाब्धेस्तरुणैकपोतं। ललाटपट्टान्नरकांतराज्याऽक्षरावली येन मम व्यलोपि । ततः श्रीगुरुविरहातुरो राजा यावद्दौहित्रं प्रतापमल्लं राज्ये निवेशयति तावद् राजवर्गभेदोऽजयपालो भातृव्यः श्री | कुमारपालदेवस्य विषमविषमदात् । तेन विधुरितगात्रो राजा ज्ञातभ्रातृव्यप्रपंचः स्वाधीनां विषापहारशुक्तिका पुरा कोशे स्थापितां शीघ्रमानयतेति निजपुरुषानादिदेश, ते च तां पुरा अजयपालेन गृहीतां ज्ञात्वा तूष्णींस्थिताः । अत्रांतरे व्याकुले समस्तराजकुले विषापहारिशुक्तिकाया अनागमनहेतुं ज्ञात्वा कोऽपि चारणः पपाठ-- 'कुमर कुमर विहार एता काई करावीया। ताहं तु करिसइ सार, सीपन आवई सई धणी ॥११॥ इत्याकर्ण्य राजा यावद्विमर्श करोति । तावत् कोऽपि अवसरवेदकः पपाठ-- 'कृतकृत्योऽसि भूपाल! कलिकालेऽपि भूतले । आमंत्रयति तेन त्वां, विधि स्वर्गे यथाविधि ॥१॥ इति श्रुत्वा राजा शुक्तेरनागमनकारणं ज्ञात्वा सर्वसमक्षमित्युवाच-- 'अर्थिभ्यः कनकस्य दीपकपिशा विश्राणिता कोटयो, वादेषु प्रतिवादिनां प्रतिहताः संस्कारगर्भा गिरः॥ उत्खतप्रतिरोपितैर्नृपतिभिः सारैरिव क्रीडितं । कर्त्तव्यं कृतमर्थना यदि विधेस्तत्रापि सज्जा वयं ॥१॥ 'इत्युदीर्य स्वधैर्येण भूपतिभूरिभाग्यवान् । लक्षं लक्षं ददौ तोषादनयोः पारितोषिकम् ॥२॥ ततो राजा त्रिंशद्वर्षान् अष्टौमासान् सप्तविंशतिदिवसान् साम्राज्यं कृत्वा कृतार्थी कृतपुरुषार्थः सर्व विरसावसानं विज्ञाय विज्ञशिरोमणिः प्राणांते दशधाराधनां विधाय चित्ते श्रीएंचपरमेष्टिप्रतिस्मरणनष्टकष्टः समाधिस्वाधीनसाध्यः परमविधिना Jan Educatiemational For Personal & Private Use Only www. rary.org

Loading...

Page Navigation
1 ... 153 154 155 156