SearchBrowseAboutContactDonate
Page Preview
Page 155
Loading...
Download File
Download File
Page Text
________________ 'अर्चामोऽबुदमौक्तिकैयदि तदाऽप्यानृण्यमस्तु क्य नो । विश्वैश्वर्यदजैनधर्मविविधाऽम्नायाप्तिहेतूह्यम्' | 'श्रीहेमसूरिप्रभुपादपद्मं वंदे भवाब्धेस्तरुणैकपोतं। ललाटपट्टान्नरकांतराज्याऽक्षरावली येन मम व्यलोपि । ततः श्रीगुरुविरहातुरो राजा यावद्दौहित्रं प्रतापमल्लं राज्ये निवेशयति तावद् राजवर्गभेदोऽजयपालो भातृव्यः श्री | कुमारपालदेवस्य विषमविषमदात् । तेन विधुरितगात्रो राजा ज्ञातभ्रातृव्यप्रपंचः स्वाधीनां विषापहारशुक्तिका पुरा कोशे स्थापितां शीघ्रमानयतेति निजपुरुषानादिदेश, ते च तां पुरा अजयपालेन गृहीतां ज्ञात्वा तूष्णींस्थिताः । अत्रांतरे व्याकुले समस्तराजकुले विषापहारिशुक्तिकाया अनागमनहेतुं ज्ञात्वा कोऽपि चारणः पपाठ-- 'कुमर कुमर विहार एता काई करावीया। ताहं तु करिसइ सार, सीपन आवई सई धणी ॥११॥ इत्याकर्ण्य राजा यावद्विमर्श करोति । तावत् कोऽपि अवसरवेदकः पपाठ-- 'कृतकृत्योऽसि भूपाल! कलिकालेऽपि भूतले । आमंत्रयति तेन त्वां, विधि स्वर्गे यथाविधि ॥१॥ इति श्रुत्वा राजा शुक्तेरनागमनकारणं ज्ञात्वा सर्वसमक्षमित्युवाच-- 'अर्थिभ्यः कनकस्य दीपकपिशा विश्राणिता कोटयो, वादेषु प्रतिवादिनां प्रतिहताः संस्कारगर्भा गिरः॥ उत्खतप्रतिरोपितैर्नृपतिभिः सारैरिव क्रीडितं । कर्त्तव्यं कृतमर्थना यदि विधेस्तत्रापि सज्जा वयं ॥१॥ 'इत्युदीर्य स्वधैर्येण भूपतिभूरिभाग्यवान् । लक्षं लक्षं ददौ तोषादनयोः पारितोषिकम् ॥२॥ ततो राजा त्रिंशद्वर्षान् अष्टौमासान् सप्तविंशतिदिवसान् साम्राज्यं कृत्वा कृतार्थी कृतपुरुषार्थः सर्व विरसावसानं विज्ञाय विज्ञशिरोमणिः प्राणांते दशधाराधनां विधाय चित्ते श्रीएंचपरमेष्टिप्रतिस्मरणनष्टकष्टः समाधिस्वाधीनसाध्यः परमविधिना Jan Educatiemational For Personal & Private Use Only www. rary.org
SR No.600191
Book TitleKumarpal Pratibodh Prabandh
Original Sutra AuthorMafatlal Zaverchand Gandhi
Author
PublisherMafatlal Zaverchand Gandhi
Publication Year1940
Total Pages156
LanguageSanskrit
ClassificationManuscript
File Size13 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy