Book Title: Kumarpal Pratibodh Prabandh
Author(s): Mafatlal Zaverchand Gandhi, 
Publisher: Mafatlal Zaverchand Gandhi

View full book text
Previous | Next

Page 154
________________ प्रतिबोध प्रबंधः इति संचित्य चरमोच्छवाससमये दशमद्वारेण प्राणोत्क्रांतिमकार्षः । तदनंतरं प्रभोः शरीरस्य कृते संस्कारे तद्भस्मपवित्रमिति कृत्वा राज्ञा तिलकव्याजेन नमश्चक्रे, ततः समस्तसामंतैस्तदनु नगरलोकैश्च तत्रत्यमृत्स्नायां गृह्यमाणायां हेमखडु इति अद्यापि सा प्रसिद्धाऽस्ति लोके । अथ राजा श्रीगुरुपादानां विरहेणाऽस्तोकशोकाश्रुजलाविललोचनः श्मशाननिभा राजसभा मन्यमानस्तत्र नायाति । दुर्गतिचिह्नान्येतानि इति राजचिह्नानि न धारयति, अयमपारं संसारं प्रापयतीति राजव्यापारं चापि न करोति । भोगान् संसाररोगानिव मन्यते । लास्यहास्यादिविमुखः हेमसूरिगुणं विना किमपि न पश्यति सकलकलाकलापकुशलैरपि अनेकधा विनोद्यमानोऽपि न वाऽपि रतिं प्राप । सचिवैविज्ञप्तः इदमवादीत् स्वपुण्यार्जितोत्तमलोकान् प्रभून् न शोचामि किंतु निजमेव सप्तांगराज्यं सर्वथाऽपरिहार्यराजपिण्डदोषक्षितं यन्मदीयमुदकमपि जगद्गुरोरंगे न लग्नं यस्मात्तदेव शोचामि । अथान्यदा सांध्यविधिविधानाय संध्यासमयं निवेदयितुं केनापि विदषाऽवसरपाठन पठितं-- 'ध्वांतं ध्वस्तं समस्तं विरहव्यपगमं चक्रवाकेषु चक्रे, संकोचं मोचित द्राक् किल कमलवने धाम लुप्तं ग्रहाणां । प्राप्तो पूजा जनेभ्य-स्तदनु च निखिला येन भुक्ता दिनश्रीः, संप्रत्यस्तंगतोऽयं हतविधिवशतः शोचनीयो न भानुः ॥१॥ इत्याकर्ण्य राजा शोकं किंचित् स्तोकं कृत्वा श्रीगुरूणां गुणान् लोकंपृणान् स्मारं स्मारं सुचिरमिदमवादीत-- 'श्रीसूरीश्वर ! हेमचंद्र ! भवतः प्रक्षाल्य पादौ स्वयं स्वर्धेनोः पयसा विलिप्य च मुहुः श्रीखंडसांद्रद्रवैः। ॥६९॥ sain Intemational For Personal & Private Use Only elibrary.org

Loading...

Page Navigation
1 ... 152 153 154 155 156