SearchBrowseAboutContactDonate
Page Preview
Page 131
Loading...
Download File
Download File
Page Text
________________ "अन्यदासुखस्वप्तस्य भूपतेः क्वापि देवता । निश्यऽजनि प्रत्यक्षा, श्यामसर्वागमंडना ॥१॥ भूपृष्टाऽवदत् साऽपि भूताधिष्ठातृदेवता । स्वदंगे प्रविविक्षामि, पूर्वशापात्तवान्वये ॥२॥ गतायामथ तस्यां स चिंतार्तोऽभून्नृपः प्रगे । सूरिपृष्टोऽवदत् सर्व, तमूचे सूरिरप्यथ ॥३॥ भावीभावो भवत्येव नान्यथा सोमरैरपि । पूर्व कामलदेव्या यत्, शापितो मूलभूपतिः ||४|| परं पुण्यं कुरु यतः - दीपो हन्ति तमस्तोमं, रसो रोगभयं यथा, सुधाविन्दुर्विषावेगं धर्मः पापहरस्तथा ||५|| रात्रौ महाव्यथाऽभूत् पृष्टे राज्ञि काकणोपमः कीटः प्रादुरभूत् । प्रतिकारैरनुपशमने श्रीगुरवः समायाता । राजानं दुखा दृष्ट्वा प्राहु:-- " "सृजति तावदशेषगुणाकरं पुरुषरत्नमलंकरणं भुवः । तदनु तत्क्षणभंगिकरोति, वद हह कष्टमपण्डितता विधेः " ॥१॥ राज्ञः श्रीगुरुदर्शनेन क्षणं सुखमभूत् । सूरिः सचिवं प्रत्याहुः, मंत्रिन् ! अपायानामुपायाः स्युः बहुरत्नावसुंधरा । मंत्री प्राह भगवन् ! अनुस्वर्ण धातवः अनुचंदनं काष्ठानि तथाऽनुपूज्यान् कलाकोविदाः । "यथा तमोंतको भानुः, सुधा सर्वविषापहा । जगत्संजीवनो मेघ स्तथा राज्ञो गुरुर्भवान्" ॥१॥ श्रीगुरुरभ्यधात् नात्र मंत्र तंत्र भैषज्य प्रभावप्रसरः किन्तु बुद्धिप्रकाराऽस्ति । यदि राज्यमन्यस्य कस्यापि दीयते तदा राज्ञः कुशलं स्यात् परं नायं धर्मः श्रीजिनतत्त्वविदां । यतः -- सव्वो न हिंसियव्वो, जह महीपालो तहा उदयपालो । न य अभयदाणवइणा, जणोऽवमाणेण होइव्वं ॥ For Personal & Private Use Only Jain Eduntemational www.janelibrary.org
SR No.600191
Book TitleKumarpal Pratibodh Prabandh
Original Sutra AuthorMafatlal Zaverchand Gandhi
Author
PublisherMafatlal Zaverchand Gandhi
Publication Year1940
Total Pages156
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy