Book Title: Kumarpal Pratibodh Prabandh
Author(s): Mafatlal Zaverchand Gandhi, 
Publisher: Mafatlal Zaverchand Gandhi

View full book text
Previous | Next

Page 125
________________ ति चरैः प्रोक्ते दूनो नृपः श्रीपत्तनेऽपि साध्वसमभूत् , विज्ञप्तं तत्गुरूणां तैश्च स्तंभितः । स तत्रस्थः षट्मासान् जीवदया पणे कृते मुक्तः। मारिः कुत्रापि स्थितिं ना लेभे। श्रीगुरुणामुपदेशेनाज्ञाकारिषु नृपेष्वाष्टादशदेशेषु चतुदर्शवत्सराणि सर्वपाणिप्रियां अमारिमकारयत् । "सारैरपि मारिं न कश्चित्कथयति सौनिकव्याध कैवर्त्यपालादि पदकान् । अपाटयत् क्वचिच्छक्त्या भक्त्या चार्थव्ययात् क्वचित् ॥१॥ अथैकदाऽश्वपर्याणस्थमूक्ष्मजीवप्रमार्जनपरं राजानं दृष्टा नपाः परस्परं भ्रसंज्ञया स्मितमकार्षः। तद्विज्ञाय विज्ञजनशिरोमणिर्लाहकटाहत्रयं बाणेन प्रस्फोटय कुंताग्रेण लोहभृतगोणिमुत्पाटय स्वभृजबलमदर्शयत् । तजिताश्च ते रे ! किमेमिर्व राकैः सूक्ष्मजंतुभिरल्पसत्वैहतैरिति । ततः कुमारगिरौ राजाज्ञयाऽष्टौ लक्षास्तुरंगमा गालितं जलं पिबन्ति । अमारिपटहकः | सर्वत्र पुरग्रामादिषु भ्रमति । राजपुरुषाश्चामारिं कारयंति। अथामारि प्रवर्तयति राजनि अश्विनशुक्लपक्षोऽगात । तत्र कंटैश्वर्यादिदेवतार्चकैविज्ञप्तं । देव! सप्तम्यां सप्तशतानि पशवः सप्त महिषाश्च देवतानां पुरा दीयन्ते राज्ञा, एवमष्टम्यां अष्टशतानि, नवम्यां नवशतानीति, राज्ञा तदाकर्ण्य श्रीगुरून् समायातान् विज्ञप्तं तत्स्वरूपं । गुरुवचनमादाय भाषितास्ते देयं दास्यामोवहि । क्रमेण रात्रौ देवीनां सद्य सुनीक्षिप्ताः पशुमहिषा, दत्तानि तालकानि मुक्तास्तत्र रक्षकाः । प्रातः समायातो राजा उद्घाटितानि तालकानि मध्ये दृष्टाः पशवो रोमधायमानाः । राजा सर्वसमक्षमिदं जगाद । भो अवेटिका पश्वादयोऽमूभ्यो दत्ताः परं न ग्रस्ताः तस्मात् अवध्या एव । मांसं रुचितं नामभ्यस्तत् कथं जीवान् हन्मि । ततस्ते सर्वेऽपि विलक्षा मौनमालंब्य स्थिताः। छागादिमूल्येन नैवेद्यानि For Persona & Private Use Only Jan Educatiemational "Reporary.org

Loading...

Page Navigation
1 ... 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156