Book Title: Kumarpal Pratibodh Prabandh
Author(s): Mafatlal Zaverchand Gandhi, 
Publisher: Mafatlal Zaverchand Gandhi

View full book text
Previous | Next

Page 113
________________ तथाऽप्ययं परमपुरुषः सकलपुरुषार्थप्रणेताऽस्मिन्निरतिशये काले श्रीशासनस्य प्रभावको भावीति कृत्वा कतिपयविद्यामंत्रान् श्रीविद्याप्रवादसंवादसुंदरान् आम्नायान् प्रदाय प्रमुदिता भगवती भारती कृतस्तुतिस्तिरोऽभूत् । पुनः पश्चादागताः । एकदा श्रीगुरूनापृच्छयान्यगच्छीयदेवेन्द्रसरिमलयगिरिभ्यां सह कलाकलापकौशलाद्यर्थ गौडदेशं प्रति प्रस्थिताः। खिल्लूरग्रामे गतास्तत्र ग्लानो मुनिवैयावृत्यादिना प्रतिचरितः। श्रीरैवतकतीर्थे देवनमस्करणकृतातिवद्ग्रामाध्यक्षश्राद्धेभ्यः सुखासनं तद्वाहकांश्च प्रगुणीकृत्य रात्रौ सुप्तास्तावत् प्रत्यूषे प्रबुद्धाः स्वं रैवतके पश्यन्ति । शासनदेवता प्रत्यक्षीभूय कृतगुणस्तुनिभर्भाग्यवतां भवतामत्रस्थितानां सर्व भावीति गौडदेशगमनं निषिध्य महौषधिरनेकान मंत्रान् नामप्रभावाद्याख्यानपूर्वक माख्याय स्वं स्थानं जगाम । एकदा श्रीगुरुभिः सुमुहूर्ते दीपोत्सवचतुर्दशीरात्रौ श्रीसिद्धचक्रमन्त्रः साम्नायः समुपदिष्टः । स च पद्मिनीस्वीकृतोतरसाधकत्वेन साध्यते ततः सिध्यति । याचितं वरं दत्ते नाऽन्यथा । ततोऽन्यदा कुमारग्रामे धौतां शोषणार्थ विस्तारितां शाटिकां समालोक्य पृष्टो रजकस्तैः, कस्या इयं शाटिका इति । सोऽवदत् ग्रामाध्यक्षपत्न्या इयं । ततो गतास्तस्मिन् ग्रामे ग्रामाध्यक्षप्रदत्तोपाश्रये स्थिताः । स च प्रत्यहं समेति, धर्मदेशनां शृणोति । तेषां ज्ञानक्रियावैराग्याऽप्रपंचादिगुणान् दृष्टा तथाविधभव्यत्वपरिपाकाद्गुणानुरागरंजितस्वांतः प्रमुदितः प्राह-यूयमनिच्छपरमेश्वराः । किमपि कार्यमसाध्यं ममाऽऽदिशन्तु । ततस्ते तं स्वांतनिवेदिनं गुणानुरागगम्भिरवेदिनं ज्ञात्वा प्राहुः । 'अस्माकं श्रीसिद्धचक्रमंत्रः साधयितुमिष्टोऽस्ति । स च पद्मिनीस्वीकृतोत्तरसाधकत्वेन सिध्यति नाऽन्यथा, तेन तव पद्मिनी स्त्री वर्त्तते तां लात्वा त्वं कृष्णचतुर्दशीरात्रौ रैवतकाचले समागच्छ अस्माकमुत्तरसाधकत्वं कुरु । विकारदर्शने शिरच्छेदस्त्वयैव विधेयः । इत्याकर्ण्य ग्रामाध्यक्षो विस्मयस्मेरमना For Persona & Private Use Only www. a llrary.org Jain Educ a tional

Loading...

Page Navigation
1 ... 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156