Book Title: Kumarpal Pratibodh Prabandh
Author(s): Mafatlal Zaverchand Gandhi,
Publisher: Mafatlal Zaverchand Gandhi
View full book text
________________
*CKXXXREERXXXKKKAR
द्रव्यलक्षत्रयं चोपनीय सभक्तिकं चावर्जितः चाचिगः सानंद मंत्रिणमवादीत् । मंत्रिन ! क्षत्रियमूल्ये अशीत्यधिकः सहस्रः अश्वमूल्ये पंचाशदधिकानि सप्तदशशतानि, सामान्यस्यापि वणिजो मूल्येन नवनवतिगजेन्द्राः एतावता नवनवतिर्लक्षा भवन्ति, त्वं तु लक्षत्रयमर्पयन् स्थूललक्षायसेऽतो मत्सुतोऽनय॑स्त्वदीया भक्तिस्त्वनय॑तमा तदस्य मूल्ये सा भक्तिरस्तु न तु मे द्रव्येण प्रयोजनमिति, शिवनिर्माल्यवदस्पर्शा मे, दत्तो मया पुत्रो भवताम् , इति चाचिगवचः श्रुत्वा प्रमुदितमना मंत्री तं परिरभ्य साधु युक्तमेतत् इति वदन् पुनस्तं प्रत्युवाच, त्वयाऽयं पुत्रो मम चार्पितः योगिमर्कट इव सर्वेषामपि जनानां नमस्कारं कुर्वन् केवल. मपमानपात्रं भविता परं श्रीगुरूणां समर्पितः श्रीगुरुपदं प्राप्य बालेन्दुरिव महतां महनीयो भवतीति विचार्यतां यथोचितम् । ततः स भवद्विचार एव प्रमाणमिति वदन् सकलश्रीसंघसमक्ष रत्नकरण्डमिव रक्षणीयं उदुंबरपुष्पमिव दुर्लभं तं पुत्रं क्षमाश्रमणपूर्वकं श्रीगुरूणां समर्पयामास श्रीगुरुभिरमाणि। "धनधान्यस्य दातारः सन्ति क्वचित् केचन । पुत्रभिक्षाप्रदः कोऽपि दुर्लभः पुण्यवान् पुमान्" ॥१॥ "धनधान्यादिसपत्सु लोके सारा हि सन्ततिः। तत्रापि पुत्ररत्नं तु तस्य दानं महत्तमम्" ॥२॥ स्वर्गस्थाः पितरो वीक्ष्य, दीक्षितं जिनदीक्षया। मोक्षभिलाषिणं पुत्रं तृप्ताः स्युः स्वर्गसंसदि ॥३॥ महाभारतेऽप्युक्तम्"तावद्भ्रमन्ति संसारे, पितरः पिण्डकाङ्क्षिणः। यावत्कुले विशुद्धात्मा, यती पुत्रो न जायते" ॥
इति श्रुत्वा प्रमुदितेन चाचिगेन प्रव्रज्योत्सवः श्रीस्तंभतीर्थे आलिगवसहिकायां कारितः । सोमदेवमुनि म दत्तम् । यथाऽन्यदा नागपुरे धनदेवनाम्नः श्रेष्ठिनो गृहे प्रथमालिकार्थं गतस्तद्गृहे रब्बा भोजनं स्वर्णराशिं च दृष्वाऽग्रगं
Jain Edeca
l emational
For Personal & Private Use Only
ary.org

Page Navigation
1 ... 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156