Book Title: Kumarpal Pratibodh Prabandh
Author(s): Mafatlal Zaverchand Gandhi,
Publisher: Mafatlal Zaverchand Gandhi
View full book text
________________
कमार०
यथा--'चारि घायं यो जयइ स जोइ-'
प्रतिबोध
प्रबंधः इति एतत्समस्यापदं विचार्य कीदृशाश्चत्वारो घाता भविष्यंतीति भीतस्त्रियामिन्यां नष्टः । प्रत्यूष घातस्वरूपं राज्ञा पृष्टाः गुरवः प्राहु:MI "एय अउब जोई मुद्दामण मेहुण अणवाई निद्दा । एय मत्थुत बुज्झइ कोई चारि घाय यो जयइ सो जोई"॥
अथ गंगातटे दीपकाख्यद्विजात्रैपुरं मंत्रं प्राप्य नर्मदातटे देवबोधिद्विजोऽसाधयत् । तुष्टा त्रिपुरा तस्यैकवाक्येन । याचस्व वरमित्युवाच प्रत्यक्षा, सोऽपि बुद्धिमान् भुक्तिमुक्तिसरस्वतीरिति ययाचे, ततः प्रभृति महेन्द्रजालादिविद्यावान् चूडामण्यादिशास्त्रैरतीतादिज्ञाता, कदलीदंडपत्रमयं आमसूत्रतंतुबद्धसुखासनमधिरोहति । चतुरशीत्यासनकरणप्रवीणः, कायगत षट्चक्रविज्ञानचक्रवर्ती, पोडशाधारधीरधीः, लक्षत्रयदक्षः, व्योमपंचकपंडितः, पूरककुंभकरेचकादिप्राणायामक्रियाकुशलः, रुढा
पिंगलामुखम्लागांधारीहस्तिीनीप्रमुखदशमहानाडीवातसंचारचतुरः, आद्विजमातंगमार्थकगृहेषु यथाहरूपकरणाद् भुंक्त । श्रीजिनAधर्मानुरक्तं नृपं ज्ञात्वा स श्रीपत्तने समायातः । सर्वद्विजैः सत्कारितः चमत्कारदर्शनात् लोकैश्च राजगुरुरिति मत्वा राजापि
संमुखमागतः। कदलीपत्रसुखासनस्थः शिशुकारितवाहका राजादिपरिवारपरिवृतः शालाग्रे समायातः । कौतुकातुलितसकलपरिवारप्रेरितो मध्ये प्रविष्टः । सूरयस्तु पुरापि पुरितासनमुद्राः प्राणायामलघुभूतशरीराः शिष्याकर्षितसिंहासना निरालम्बाः स्थिताः संति । तान् तदवस्थान् दृष्टा विस्मितो देवबोधिः, सर्वेऽपि लोका विस्मयस्मेरमानसाः प्रोचुरहो सूरीणां निराधारमाकाशेऽवस्थानमिति । तेन कवित्वशक्तिपरीक्षार्थ समस्यापदमर्पितं ।
यथा-'योषिता रुदती मुखं च नयने स्वे गर्हते कन्यका'।
Jain Edur
e mational
For Personal & Private Use Only
W
brary.org

Page Navigation
1 ... 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156