Book Title: Kumarpal Pratibodh Prabandh
Author(s): Mafatlal Zaverchand Gandhi, 
Publisher: Mafatlal Zaverchand Gandhi

View full book text
Previous | Next

Page 53
________________ इति विमृशद्भिः समंततः सामन्तैः भयभ्रान्तचित्तैः ततः प्रभृति स नृपतिः प्रतिपदं सिषेवे । पट्टाभिषेकानन्तरं सोलाकनामा गंधर्वः अवसरे गीतकलया अतुलया रंजिताद्राज्ञः षोडशाधिकं शतं प्रासादे द्रम्माणामवाप्य तैः सुखभक्षिकामादाय संतपर्यन् बालकान राज्ञे दानमनल्पमित्युपहसन् कुपितेन शाज्ञा निर्वासितो विदेशं गतः । तत्रत्यभूपतेः परितोषि ताद्गजयुगलमानीयोपायनीकुर्वन् चौलुक्यभूपालेन सन्मानितः । कदाचित्कोऽपि वैदेशिकगंधर्वो मुषितोऽस्मीति तारं बम्बारवं कुर्वाणः केन मुषितोऽसीति राज्ञाभिहितो मम गीतिकलयाऽतुलया सामीप्यमुपेयुषा कौतुकार्पितगलशृंखलेन नश्यता मृगेगेणेति विज्ञपयामास । तदनु सोलाभिधानो गंधर्वराट् नृपतिना समादिष्टः " तं मृगमनाय" अटवीमटन्तं स्फीतगीताकृष्टिविद्यया गलखेलत्कनकशृंखलं मृगं नगरान्तः समानीय तस्य भूपतेः सभासमक्षं दर्शयामास । अतस्तत्कलाकौशलेन चमत्कृतमानसो नृपतिः सोलाकं गीतकलाया अवधिं पप्रच्छ । सशुष्कं शाखाखण्डं राज्ञोङ्गणे कुमारमृत्तिकाक्लप्तालवालं मल्हारवर्णाप्तानवद्यगीतिकलया सद्यः प्रोल्लसत्पल्लवितं निवेदयन् स सपरिवारं नृपं तोषयामास । तदा तुष्टेन राज्ञा पारितोषिके ग्रामयमलं दत्तम् । वयकारसोलाप्रबन्धः। "कृतोपकारानाकार्य सर्वान् सत्त्वहितस्ततः। कृतज्ञः कृतवान् राजा, तेषां पूजां यथोचिताम्" ॥१॥ स्वामिभक्तो जनोत्साही, कृतज्ञो धार्मिकः शुचिः। अकर्कशः कुलीनश्च शास्त्रज्ञः सत्यभाषकः ॥२॥ विनीतः स्थूललक्षश्चाव्यसनी वृद्धसेवकः । अक्षुद्रः सत्त्वसंपन्नः, प्राज्ञः शूरोऽचिरक्रियः ॥३॥ पूर्व परीक्षितः सर्वो-पधासु निजदेशजः । राजार्थस्वार्थलोकार्थकारको निस्पृहः शमी ॥४॥ अमोघवचनः कल्पः, पालिताऽशेषदर्शिनः । पात्रौचित्येन सर्वत्र, नियोजितपदक्रमः॥५॥ Jan Eulenteme For Persons & Private Use Only INCOMbrary.org

Loading...

Page Navigation
1 ... 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156