Book Title: Kumarpal Pratibodh Prabandh
Author(s): Mafatlal Zaverchand Gandhi,
Publisher: Mafatlal Zaverchand Gandhi
View full book text
________________
3333*XXXXXXXXXXXXX
अथ पुण्यतत्वं-येन जीवः सुखमनुभवति तत्सुखवेदनीयं पुण्यप्रकृतिः, उच्चैर्गोत्रपुण्यप्रकृत्या धनबुद्धिरूपादिरहितो लोके पूजां लभते । यया पुण्यप्रकृत्या मानुष्यं लभते सा मनुष्यगतिः यया वृषभनासिकारज्जुकल्पया द्विसमयादिवक्रेण गच्छन् जीवो मनुष्यगतावानीयते सा मनुष्यानुपूर्वी, एवं देवगतिदेवानुपूर्वीपंचेन्द्रियजातिः औदारिकशरीरं तिर्यग्मनुष्याणां वैक्रियमौपपातिकं लब्धिप्रत्ययं च, आहारकं चतुर्दशपूर्वविदः कारणे स्यात् , तैजसं भुक्तानपरिणतितेजोलेश्याहेतुः, इत्यादिपुण्यतत्वं ज्ञेयम् । पापतत्त्वं आश्रवतत्वं संवरतत्वम् तथैवावगन्तव्यं सुगमत्वेन नोच्यते ।
अथ निर्जरातत्वं निर्जरयति रसहान्या कर्मपुद्गलान् जीर्णान् करोति या सा निर्जरा । सा च द्विभेदा सकामनिर्जरा अकामनिर्जरा च । तत्र अकामनिर्जरा सहनपरिणाममन्तरेण । सकलचातुर्गतिकजीवानां स्वयंपरिपाकसमायातकर्मफलवेदनम् । सकामनिर्जरा तु परिज्ञातकर्मविपाकनिर्जरणोपायानां कर्मक्षयार्थ सहनपरिणामवतां सर्वविरतदेशविरतादीनां सा द्वादशधा तपोरूपा-तत्र अणसणं-अनशनं द्विधा इत्वरं यावत्कथिकं च तत्रेत्वरं चतुर्थषष्ठमादि यावत् संवत्सरं तपः, यावत्कथिकं तु भक्तपरिज्ञा-इंगिनी-पादपोपगमरूपात् त्रिधा । ऊनोदरता द्विधा द्रव्यतो भावतश्च तत्र द्रव्यतः । कवलाणयपरिमाणं कुकुडिअंडगपमाणमित्ताणं, जं ऊणं कीत्तिरइ उणोयरिया सा दब्वेभावतः-॥ कोहाईणमणुदिणं वाउजिणं वयणभावणाउओ, भावेणोणोयरिया पन्नत्ता वीयरागेहिं ।।
वृत्तिसंक्षेपगोचराभिग्रहादिश्चतुर्की द्रव्यतः क्षेत्रतः कालतो भावतश्च तत्र द्रव्यतो निर्लेपादिग्राह्यं । उक्तं चः--
लेवणमलेवणं वा अमुगं दव्वं च अज्ज घिच्छामि अमुएण व दवेणं इय दव्वाभिग्गहो नाम गोअरभूमिए |
-demational
For Persona & Private Use Only
wagamelorary.org

Page Navigation
1 ... 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156