Book Title: Kumarpal Pratibodh Prabandh
Author(s): Mafatlal Zaverchand Gandhi, 
Publisher: Mafatlal Zaverchand Gandhi

View full book text
Previous | Next

Page 108
________________ कुमार० ॥ ४६ ॥ सव्वाई अंतोमुद्दत्तमित्तंपि अंतर्मुहूर्त्तमष्टसमयोर्ध्वं घटीद्वयमध्यं यावदित्यर्थः तच्चान्तर्मुहूर्त्तप्रमाणं सम्यत्वमौपशमिकमुच्यते यथोपरं दग्धं वा वनदेशं प्राप्य दवः स्वयमुपशममेति तथा जीवोऽपि ग्रन्थिभेदानन्तरमंतर्मुहूर्त्तमतिक्रम्य मिथ्यात्वस्यानुदयमधिगम्यांतर्मुहूतिकमेतत्सम्यक्त्वं लभते, उत्कृष्टतः पुनः सम्यक्त्वप्राप्तिकाल किञ्चिन्न्यूनः पुद्गलपरावर्त्तः, तस्येदं स्वरूपम् - उस्सप्पिणी अनंता पुग्गलपरियट्टओ मुणेयब्वो, ते णंता तीयद्धा अणागयद्वाणंत गुणा ॥१॥ इति तचानि, अन्येऽपि च श्रीजिनोक्तभावास्तच्चज्ञैज्ञेयाः यदुक्तंतत्त्वानि व्रतधर्मसंयमगतिज्ञानानि सद्भावनाः । प्रत्याख्यानपरीषहेन्द्रियदमध्यानानि रत्नत्रयम् ||१|| लेश्यावश्यककाय योग समितिप्राणप्रमादास्तपः । संज्ञाकर्मकषायगुप्त्यतिशया ज्ञेयाः सुधीभिः सदाः ॥२॥ इत्येतानि नव तत्त्वानि श्रीगुरुमुखेन श्रुत्वा श्रीकुमारपाल भूपालोऽधिगतजीवाजीवादितत्त्वः परिज्ञातषद्रव्यस्वरूपः परमार्हतः परमश्रावकः समजनि । अथान्यदाऽनेकभूपालचक्रवालपरिवृतः श्रीकुमारपालः पंचांगप्रणामेन श्रीपरमगुरूणां क्रमपद्म प्रणम्य गृहस्थानामुचितामाहोरात्रिकीं क्रियामपृच्छत् ततः श्रीगुरवः प्राहुः - राजन् ! संसारविरक्तानां यतिधर्मानुरक्तानां परमश्रावकाणामाहोरात्रिकी क्रिया श्रूयताम् तथाहि Jain Eduntemational निसाविरामि विबुद्धएणं, सुसावरणं गुणसायरेण । देवाहिदेवाण जिणुत्तमाणं, किच्चो पणामो विहिणारेणं ॥ १ ॥ सज्जाठाणं पमुत्तृणं चिंट्ठिजा धरणीयले । भावबंधुं जगन्नाहं नमुक्कारं तओ पढे ||२|| For Personal & Private Use Only प्रतिबोध प्रबंधः ॥ ४६ ॥ library.org

Loading...

Page Navigation
1 ... 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156