________________
3333*XXXXXXXXXXXXX
अथ पुण्यतत्वं-येन जीवः सुखमनुभवति तत्सुखवेदनीयं पुण्यप्रकृतिः, उच्चैर्गोत्रपुण्यप्रकृत्या धनबुद्धिरूपादिरहितो लोके पूजां लभते । यया पुण्यप्रकृत्या मानुष्यं लभते सा मनुष्यगतिः यया वृषभनासिकारज्जुकल्पया द्विसमयादिवक्रेण गच्छन् जीवो मनुष्यगतावानीयते सा मनुष्यानुपूर्वी, एवं देवगतिदेवानुपूर्वीपंचेन्द्रियजातिः औदारिकशरीरं तिर्यग्मनुष्याणां वैक्रियमौपपातिकं लब्धिप्रत्ययं च, आहारकं चतुर्दशपूर्वविदः कारणे स्यात् , तैजसं भुक्तानपरिणतितेजोलेश्याहेतुः, इत्यादिपुण्यतत्वं ज्ञेयम् । पापतत्त्वं आश्रवतत्वं संवरतत्वम् तथैवावगन्तव्यं सुगमत्वेन नोच्यते ।
अथ निर्जरातत्वं निर्जरयति रसहान्या कर्मपुद्गलान् जीर्णान् करोति या सा निर्जरा । सा च द्विभेदा सकामनिर्जरा अकामनिर्जरा च । तत्र अकामनिर्जरा सहनपरिणाममन्तरेण । सकलचातुर्गतिकजीवानां स्वयंपरिपाकसमायातकर्मफलवेदनम् । सकामनिर्जरा तु परिज्ञातकर्मविपाकनिर्जरणोपायानां कर्मक्षयार्थ सहनपरिणामवतां सर्वविरतदेशविरतादीनां सा द्वादशधा तपोरूपा-तत्र अणसणं-अनशनं द्विधा इत्वरं यावत्कथिकं च तत्रेत्वरं चतुर्थषष्ठमादि यावत् संवत्सरं तपः, यावत्कथिकं तु भक्तपरिज्ञा-इंगिनी-पादपोपगमरूपात् त्रिधा । ऊनोदरता द्विधा द्रव्यतो भावतश्च तत्र द्रव्यतः । कवलाणयपरिमाणं कुकुडिअंडगपमाणमित्ताणं, जं ऊणं कीत्तिरइ उणोयरिया सा दब्वेभावतः-॥ कोहाईणमणुदिणं वाउजिणं वयणभावणाउओ, भावेणोणोयरिया पन्नत्ता वीयरागेहिं ।।
वृत्तिसंक्षेपगोचराभिग्रहादिश्चतुर्की द्रव्यतः क्षेत्रतः कालतो भावतश्च तत्र द्रव्यतो निर्लेपादिग्राह्यं । उक्तं चः--
लेवणमलेवणं वा अमुगं दव्वं च अज्ज घिच्छामि अमुएण व दवेणं इय दव्वाभिग्गहो नाम गोअरभूमिए |
-demational
For Persona & Private Use Only
wagamelorary.org