Book Title: Kumarpal Pratibodh Prabandh
Author(s): Mafatlal Zaverchand Gandhi, 
Publisher: Mafatlal Zaverchand Gandhi

View full book text
Previous | Next

Page 97
________________ | संज्ञासंबाधिताश्च बभुवुः यत्र च भगवान् वासितः तत्र तिलभृतानि शकटानि पानीयपूर्णश्च हुदः समभौमं च गर्ताबिलादि वजितं स्थंडिलं अभवत् । अपि च विशेषेण तत्कालोदकस्थण्डिलजातं विरहिततरमतिशयेनागन्तुकैस्तदुत्थैश्च जीवैर्वजितं । तथापि भगवताऽऽनाचीणं नानुज्ञातं एषो नु धर्मः प्रवचनस्य सर्वैरपि अनुगन्तव्यः एवमन्यदपि कल्पाऽकल्पं प्रासुकमपि न देयं दात्रा लेयं च साधुना, न स्वर्णादीनि दानानि देयानीत्यहतां मतं । अन्नादीन्यपि पात्रेभ्यो दातव्यानि विपश्चिता । अन्यैरप्युक्तम् । क्षेत्रं यंत्रं प्रहरणवधूलांगलं गोतुरङ्ग, धेनुर्गन्त्री द्रविणतरवो हर्म्यमन्यच्च चित्रम् । यत्सारंभं जनयति मनोरत्नमालिन्यमुच्चैः तादृक् दानं सुगतितृषितैनॆव देयं न लेयम् ॥ पात्रदाने फलं मुख्यं, मोक्षं शस्यं कृषेरिव । पलालमिव भोगास्तु, फलं स्यादानुषङ्गिकम् ॥१॥ इति श्रुत्वा राजा श्रीगुरुमुखेन सम्यक्त्वमूलानि व्रतानि जग्राह । एवं व्रतस्थितो भक्त्या सप्तक्षेत्र्यां . धनं वपति । सप्तक्षेत्री स्वरूपं चाहुः-- नवीनप्रासादनिर्मापणं जीर्णोद्धरणं तत्र महामहिम्ना पूजाकरणं, गीतनृत्यवादित्रादिसकलपताकातोरणछत्रचामर,गार शालिभञ्जिकाचंद्रोद्योतविचित्रचित्रशोभादिकरणं तत्प्रथमं क्षेत्रम् । विंबं स्वर्णरूप्यमणिविद्रुमशैलमयं तत् द्वितीय क्षेत्रम् । पुस्तकेषु श्रीजिनागमलिखापनं तच्छुश्रूषणं तृतीय क्षेत्रम् । चतुर्विधसंघभक्तिश्चेति सप्तक्षेत्री य स बाह्यमनित्यं च । एतदाकर्ण्य नवीनप्रासादजीर्णोद्धारजिनबिंबपुस्तकसाधुसाध्वीश्रावकश्राविकादिषु तेषु साधर्मिकवात्सल्यादिभक्तिषु पुण्यकृत्येषु सादरोऽभूत । अथ राजा जिनोक्तानि नवतत्त्वान्यपृच्छत् । श्रीगुरवः प्राहुः तत्रेदं जीवस्वरूपं-- tematonai Jane For Personal & Private Use Only wwinninilibrary.org

Loading...

Page Navigation
1 ... 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156