Book Title: Kumarpal Pratibodh Prabandh
Author(s): Mafatlal Zaverchand Gandhi,
Publisher: Mafatlal Zaverchand Gandhi
View full book text
________________
स उ वित्तह० पाहि स्त्री सवि वंकडी किनुपत्तिजइ तास । नीय सिरि घडउचडी वि करी पच्छइ दिजे
पास १ प्राप्तुं पारम्० ततो विलक्षश्चित्रांगः सुतं वाराहगुप्तकं । संस्थाप्य च स्वयं राज्ये, महोत्स्वपुरस्सरम् ॥१॥ शनैः शनैः वजन भूयः, कन्यकुब्जं पुनः गतः । स्वभााग्रे पठदुग्रं, भट्टोवागीश्वरोऽन्यदा ॥२॥
चित्रकूटमिदं भद्रे पृथिव्यामेकलोचनम् । द्वितीयलोचनस्याथै, तपस्तपति मेदिनी ॥३॥
कुमारः सपरीवारः तच्छृत्वाऽऽरुह्य तं नगम् । विस्मितः सर्वतो वीक्ष्य, दिगभागान् निजगाद च ॥४॥ शैलाः सर्वे गंडशैलानुकारा, वृद्धा ग्रामाः क्षामधामोपमानाः। कुल्याः तुल्याः प्रौढसिन्धुप्रवाहाः, संदृश्यन्ते दूरतोत्राधिरूढः॥ ततः श्रीरघुवंशमौक्तिकश्रीकीर्तिधरराजर्षिपुत्रस्य सुकोशलमहर्षेः पूर्वभवमातृव्याघ्रीकृतोपसर्गस्य समुत्पन्न केवलज्ञानस्य निर्वाणभूमिकां चित्रकूटासन्नां नत्वा ।
"ततस्तदीक्ष्य सोत्कंठः, कान्यकुब्जपुरं ययौ । आम्राणां लक्षशो वीक्ष्य, लक्षारामान् स विस्मयः" ॥१॥ पप्रच्छ कञ्चित् किमाम्रा, दृश्यन्ते गणनातिगाः । सोप्यूचे न करोऽत्रास्ति, चूतानां तद्घना अमी ॥२॥ राज्येऽहमपि चूतानां, करं मोक्ष्ये स्वनीवृति । विचिन्त्येति कुमारोऽगात् , काशी निर्झरवेषभाक् ॥३॥ भ्रमन्नेकेन वणिजा वस्त्राद्यैः सत्कृतः कृती। द्वितीयेऽह्नि लुटयमानं, तद्गृहं वीक्ष्य दुःखितः ॥४॥ कंचित् पप्रच्छ किमिदं, सोचे अद्याऽपुत्रको वणिक् । मृतोऽसौ तद्गृहं तेन, लुंट्यते राजपूरुषैः ॥५॥ श्रुत्वेति चकितः स्वान्ते, भवरूपं विभावयन् । यथा क्षणादसौ नष्टः, श्रेष्ठी सर्व तथा भवे ॥६॥
wwwT
Jain Edu
n tematonai
For Personal & Private Use Only
orary.org

Page Navigation
1 ... 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156