Book Title: Kumarpal Pratibodh Prabandh
Author(s): Mafatlal Zaverchand Gandhi,
Publisher: Mafatlal Zaverchand Gandhi
View full book text
________________
इतश्च क्षेमराजस्य, पुत्रो देवप्रसादकः । तस्य पुत्रास्त्रयस्त्रिभुवनपालादयोऽभवन् ॥ ४४ ॥ त्रिभुवनपालस्याऽभूत्सुतैका तनयास्त्रयः। आद्यः कुमारपालाख्यो, राजलक्षणलक्षितः॥४५॥ महीपालः कीर्तिपालस्तथा प्रीमलदेव्यभूत् । श्रीकृष्णदेवमदेन, वोढा मोहडवासके ॥ ४६॥ भायो भोपालदेवीति, कुमारस्य बभूव च । कुमारपालस्य पुत्री लालूः साङ्गसुन्दरा ।
अत्रान्तरे सिद्धराजो दैवज्ञ पृष्टवानिति ॥४७॥ मम पदे को भविता, सोप्यूचेस्ति महाभुजः । मध्ये दधिस्थलिकाया, यस्ते भ्रातृव्यनंदनः॥४८॥ राज्यं नो मम पुत्रस्य, जीवति भ्रातृनप्तरि । तत्तं ज्ञात्वा हनिष्यामीत्यचिंतयदथ नृपः ॥५०॥ ततोऽसौ पादचारेण, कपोतीमुद्वहन् स्वयम् । गत्वा प्रभासे पुत्रार्थ, सोमनाथमनाथयत् ॥५१॥ सोमनाथोऽप्यथोवाच, मया राज्यधरः पुरा । सृष्टः कुमारपालोऽस्ति, तदलं पुत्रयाञ्चया ॥५२॥ सविषादस्ततो भूपो, व्यावृत्तः पत्तनं प्रति । अस्मिन् जीवति, पुत्रोऽपि न मे भावीत्यचिंतयत् ।। ५३ ॥ मंत्रिणे कथिते त्वेतत् , सोप्यूचे युक्तमेव तत् । यदा पूर्व देवपादो, विजेतुं मालवान् गतः ॥ ५४ ॥ घाटे दुर्वलिकायाश्च, संरुद्धे यशवर्मणा । युष्माभिः ज्ञापितश्चाहं, पारापतप्रयोगतः ॥ ५५ ॥ त्रिभुवनपालस्यैतत्तदा राज्यं समर्पितम् । त्वत्समीपेऽहमायास्तेन राज्यं वशीकृतम् ॥ ५६॥ निर्जित्य यशवर्माणं, त्वया यातेऽपि वक्ति सः। राज्यं दास्ये स्वपुत्राय, हत्वा सिद्धनरेश्वरम् ॥ ५७ ॥
Jain Ed
i ntematonai
For Personal & Private Use Only
w
oraryong

Page Navigation
1 ... 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156