SearchBrowseAboutContactDonate
Page Preview
Page 33
Loading...
Download File
Download File
Page Text
________________ इतश्च क्षेमराजस्य, पुत्रो देवप्रसादकः । तस्य पुत्रास्त्रयस्त्रिभुवनपालादयोऽभवन् ॥ ४४ ॥ त्रिभुवनपालस्याऽभूत्सुतैका तनयास्त्रयः। आद्यः कुमारपालाख्यो, राजलक्षणलक्षितः॥४५॥ महीपालः कीर्तिपालस्तथा प्रीमलदेव्यभूत् । श्रीकृष्णदेवमदेन, वोढा मोहडवासके ॥ ४६॥ भायो भोपालदेवीति, कुमारस्य बभूव च । कुमारपालस्य पुत्री लालूः साङ्गसुन्दरा । अत्रान्तरे सिद्धराजो दैवज्ञ पृष्टवानिति ॥४७॥ मम पदे को भविता, सोप्यूचेस्ति महाभुजः । मध्ये दधिस्थलिकाया, यस्ते भ्रातृव्यनंदनः॥४८॥ राज्यं नो मम पुत्रस्य, जीवति भ्रातृनप्तरि । तत्तं ज्ञात्वा हनिष्यामीत्यचिंतयदथ नृपः ॥५०॥ ततोऽसौ पादचारेण, कपोतीमुद्वहन् स्वयम् । गत्वा प्रभासे पुत्रार्थ, सोमनाथमनाथयत् ॥५१॥ सोमनाथोऽप्यथोवाच, मया राज्यधरः पुरा । सृष्टः कुमारपालोऽस्ति, तदलं पुत्रयाञ्चया ॥५२॥ सविषादस्ततो भूपो, व्यावृत्तः पत्तनं प्रति । अस्मिन् जीवति, पुत्रोऽपि न मे भावीत्यचिंतयत् ।। ५३ ॥ मंत्रिणे कथिते त्वेतत् , सोप्यूचे युक्तमेव तत् । यदा पूर्व देवपादो, विजेतुं मालवान् गतः ॥ ५४ ॥ घाटे दुर्वलिकायाश्च, संरुद्धे यशवर्मणा । युष्माभिः ज्ञापितश्चाहं, पारापतप्रयोगतः ॥ ५५ ॥ त्रिभुवनपालस्यैतत्तदा राज्यं समर्पितम् । त्वत्समीपेऽहमायास्तेन राज्यं वशीकृतम् ॥ ५६॥ निर्जित्य यशवर्माणं, त्वया यातेऽपि वक्ति सः। राज्यं दास्ये स्वपुत्राय, हत्वा सिद्धनरेश्वरम् ॥ ५७ ॥ Jain Ed i ntematonai For Personal & Private Use Only w oraryong
SR No.600191
Book TitleKumarpal Pratibodh Prabandh
Original Sutra AuthorMafatlal Zaverchand Gandhi
Author
PublisherMafatlal Zaverchand Gandhi
Publication Year1940
Total Pages156
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy