SearchBrowseAboutContactDonate
Page Preview
Page 34
Loading...
Download File
Download File
Page Text
________________ कुमार प्रतिबोध इति मंत्रिवचः श्रुत्वा, क्रुद्धः सिद्धाधिपस्ततः। त्रिभुवनपालं देवं, घातयामास घातकैः॥ ५८॥ प्रबंधः कुमारपालोऽप्यवन्त्यां, प्रेष्य भ्रातृपितृव्यकान् । भार्या भोपालदेवीं तु, दधिस्थल्याममुश्चत ॥ ५९ ॥ स्वयं तु स्त्रिपुरुषाणां, मठाधिपतिसन्निधौ । कपटेन जटाधारी, भूत्वा श्रीपत्तने स्थितः॥ ६० ॥ सिद्धराजोऽपि तत्रस्थं, ज्ञात्वा तं च कथंचन । क्षयाह्ने (प्रासादे) कर्णदेवस्य, द्वात्रिंशत्तापसैः सह ॥ ६१ ॥ तं निमन्त्र्य मठाधीश, पंक्त्या धावन् पदौ स्वयम् । ददर्श राजचिह्नानि, कुमारस्य च पादयोः ॥ ६२ ॥ उपलक्ष्य कुमार तं, राज्ञा पृष्टो मठाधिपः । अवोचच्च त्रयस्त्रिंशत्तापसा वयमास्महे ॥६३॥ नानाविधैर्भक्ष्यभोज्यैः, राजा संभोज्य तानथ । धौतपोतीकृते तेषां, भाण्डागारे स्वयं गतः ॥ ६४॥ अत्रान्तरे कुमारोऽपि, गृहीत्वा कुण्डिकां करे । उत्क्रान्तिाजतो नंष्ट्वा, कुंभकारगृहं गतः ॥६५॥ आपाके रच्यमाने तु, मृत्पात्राणां तु कृपालुना। आलिगेन तदन्तस्तं, निधायेति सुरक्षितः ॥६६॥ सिद्धराजोऽप्यदृष्ट्वा तं, पृष्टेऽप्रैपीच्च साधनम् । आगतं साधनं प्रेष्य, ययौ संमुखमालिगः॥६७॥ राट्पुरुषस्ततः पृष्टं, पुमान् कश्चिदिहाऽययौ । किमंधा यूयमग्रेऽपि, किन्न पश्यथ पावकम् ॥ ६८ ॥ राजलोके गते तेन, नाशि भो भो निशि ? (नाशितं निशि छन्त्रक)। दृष्ट्वा सैन्यं प्रगेऽकस्मात्कुमारो हालिकं जगौ॥ रक्ष मामिति तेनाऽपि, स छन्नः कण्टकाभरैः । तमदृष्ट्वा सैन्यममपि, गतं व्याघुट्य पत्तने ।। ७० ॥ निसृत्याऽथ कुमारोऽपि, मुंडाप्य विकटा जटा । गत्वा दधिस्थली रात्रौ, मिलितः स्वजनैः समम् ॥ ७१॥ wwwmrary.org ॥ ९ ॥ Jan Educ a tional For Personal & Private Use Only
SR No.600191
Book TitleKumarpal Pratibodh Prabandh
Original Sutra AuthorMafatlal Zaverchand Gandhi
Author
PublisherMafatlal Zaverchand Gandhi
Publication Year1940
Total Pages156
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy