SearchBrowseAboutContactDonate
Page Preview
Page 35
Loading...
Download File
Download File
Page Text
________________ EKKARXXXX** आकार्य वोसिरिं मित्रं, कुलालमालिगं तथा । गंतुं देशान्तरं ताभ्यां, सह यावदमंत्रयत् ॥ ७२॥ तावदुज्जागरोद्विनौ, जनकावुचतुस्तयोः । भवतां मन्त्रणैर्दग्धाः, केयं जागरिका मुधा ॥७३॥ यद्वा कुमारपालस्य, राज्यं यदि भविष्यति । तत्कथं वोसिरे तुभ्यं, लाटदेशं प्रदास्यति ॥ ७४ ॥ किंच रे आलिग तव, चित्रकूटस्य पट्टिकां । वबंध शकुनग्रन्थि तच्छ्रुत्वा राजनंदनः ॥ ७५ ॥ आलिगं भोपलदेव्या, सह प्रैषीदवन्तिकां । स्वयम् वोसिरियुक्तस्तु, चेले देशान्तरं प्रति ॥ ७६ ॥ व्रजन्नेवं कुमारोऽपि, नानाश्चर्यावलोकधीः । विश्रान्तस्तरुच्छायायां, यावदस्ति समाहितः ॥ ७७ ॥ तावद्विलान्मूषकं मुखेन रूप्यनाणकमाकर्षन्तं निभृततया विलोक्य यावदेकविंशतिसंख्यानि दृष्ट्रवा एक गृहीत्वा चिलं | प्रविष्टः कुमारपालः पाश्चात्यानि तु सर्वाणि गृहीत्वा यावन्निभृतीभूत्वा तिष्ठति तावन्मूषकस्तान्यनवलोक्य तदा विपेदे।। तच्छोकशंकाव्याकुलितमानसश्चिरं परितप्य चेतसीदं चिन्तयामास अर्थानामर्जने दुःखं, अर्जितानां च रक्षणे । नाशे दुःखं व्यये दुःखं, धिगर्थे दुःखभाजनम् ॥१॥ धनेषु जीवितव्येषु, स्त्रीषु चान्नेषु सर्वदा । अतृप्ताः प्राणिनः सर्वे, याता यास्यन्ति यांति च ॥२॥ ___ तस्मात्पुरो व्रजन् कयाऽपि इभ्यवध्वा श्वसुरगृहात्पितुर्ग्रहं व्रजन्त्या पथि पाथेयाऽभावात् दिनत्रयक्षुत्क्षामकुक्षिः भ्रातृवात्सल्यात्कुमारपालः कर्पूरपरिमलशालिना शालिकरंबेन सुहितीचक्रे । तदौचित्येन हृष्टोऽचिन्तयतकरचलुयपाणिएण वि, अवसरदिन्नेण मुच्छिओ जियइ । पच्छा मुयाणु सुन्दरि घडसयदिनेण किं तेण ॥ Jain Edeg e mational For Personal & Private Use Only wwww. lary.org 11
SR No.600191
Book TitleKumarpal Pratibodh Prabandh
Original Sutra AuthorMafatlal Zaverchand Gandhi
Author
PublisherMafatlal Zaverchand Gandhi
Publication Year1940
Total Pages156
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy