SearchBrowseAboutContactDonate
Page Preview
Page 36
Loading...
Download File
Download File
Page Text
________________ कुमार० ॥ १० ॥ जं अवसरेण न हुयं दाणं, विणओ सुभासियं वयणम् । पच्छा गयकालेणं, अवसरहिएण किं तेण ॥२॥ तस्मिन् करोटकग्रामे, उषित्वा जातलंघनौ । अच्छांबिभ्यां द्वितीयेऽह्नि, प्रयातौ महरद्वये ॥ १ ॥ कुमारो वोसिरिं प्राह, अद्य स्याद्भोजनं कथम् । सोऽप्याऽऽहाऽस्ति जननी मे, सा मे दास्यति भोजनम् ||२|| यतः - प्रतिदिनमयत्नलभ्ये, भिक्षुकजनजननि साधुकल्पलते । नृपनमनि नरकतारणि । भगवति ! भिक्षे ! नमस्तुभ्यम् ॥३॥ Jain Education International इत्युक्त्वा वोसिरिर्भिक्षां कृत्वा यातस्तदन्तिके । करंबकुम्भं संगोप्य, भिक्षामुण्डीमुपानयत् ||४|| क्वोभावपि सुप्त्वा च पूर्वमादाय वोसिरिः । करंचं यावदश्नाति कुमारोऽचिन्तयत्तदा ॥५॥ अहोsस्य न्यूनता येन, मुझे मय्येककोऽयसौ । जीर्णे करंबे सोप्याहोत्तिष्ठ भुक्ष्व नृपात्मज ! ॥६॥ ऊ कुमारः किं पूर्वमेकाकी भुक्तवान् भवान् । स ऊचे मम भिक्षार्थ, गतस्योक्तं स्त्रियैकया ||७|| करंबकुम्भं हे विप्र ! रात्रावुद्घटितं स्थितम् । गृहाण यदि ! ते कार्य, न पुनर्मम दूषणम् ||८|| वरं भवतु मे मृत्यू, रक्षणीयो भवान् पुनः । गोपितः स मयाऽऽदाय, स्वयं भुक्त्वा परीक्षितः ॥९॥ राज्ये दास्ये तव ग्राममेनमुक्त्वेति राजसूः । प्राप्तो डांगरिकाग्रामे, साध्वीलक्ष्मीश्रियो मठे ॥१०॥ तया च क्षुधितो ज्ञात्वा, भोजितश्चारुमोदकैः । तथैवार्पितपाथेयः, पटलापद्रकं गतः ॥ ११ ॥ तत्रेश्वरवणिग्वाट्यां प्रविष्टस्य पटी गता । न लब्धा चाभिरपि विषादोऽस्य महानभूत् ||१२|| For Personal & Private Use Only प्रतिबोध प्रबंधः ॥ १० ॥ brary.org
SR No.600191
Book TitleKumarpal Pratibodh Prabandh
Original Sutra AuthorMafatlal Zaverchand Gandhi
Author
PublisherMafatlal Zaverchand Gandhi
Publication Year1940
Total Pages156
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy