Book Title: Kumarpal Pratibodh Prabandh
Author(s): Mafatlal Zaverchand Gandhi,
Publisher: Mafatlal Zaverchand Gandhi
View full book text
________________
कुमार०
॥ ५॥
तदेनमनुजानीहि पाषाणखनिमादिश । अम्बाऽप्यूचे भवत्वेतदल्पायुः सज्जनः पुनः ॥ २१ ॥ दण्डाधिपः प्राह कार्यस्तीर्थोद्धारो विशेषतः । परलोकप्रस्थितानां, पाथेयं धर्म एव यत् ॥ २२ ॥ दीपे म्लायिनि तैलपूरणविधिस्तोयं द्रुमे शुष्यति । प्रावारो हिमसंगमे जलगृहं ग्रीष्मे ज्वरोजागरे निर्वातं कवचं शरव्यतिकरे रोगोद्भवे भेषजम् । धर्मो मृत्युमहाभये सति सतां संसेवितुं युज्यते ॥ २३ ॥ अम्बानुज्ञां ततो लब्ध्वा, पाषाणस्य खनिं च सः । श्रीनेमिचैत्यं षण्मास्यां, कलशान्तमकारयत् ।। २४ ॥ ज्येष्ठस्य सितपचम्यां, शिरोऽर्त्तोऽथ सज्जनः । अंबादेवीवचः स्मृत्वा, जातपंचत्वनिश्चयः ।। २५ ।। आदिश्य परशुरामं, स्वपुत्रं ध्वजरोपणे । भद्रेश्वरगुरोः पार्श्वे, संस्तारव्रतमग्रहीत् ॥ २६ ॥ दिनाष्टकं पालयित्वाऽनशनं सजनो मुनिः । दिवं जगाम पुत्रोऽस्य ध्वजारोपं व्यधापयत् ॥ २७ ॥ द्वयो राज्ञोर्नैकत्रावस्थानं युक्तमिति आशापल्लीनिवासिनं प्रबलभुजबलशालिनं आसाकं भिल्लं जित्वा कर्णावतीं पुरीं - विधाय एकोनत्रिंशद्वर्षाणि राज्यं कृत्वा पंचत्वमाप ।
अत्रान्तरे परशुरामेणाऽचिन्ति, राजा श्रीजयसिंहो दंडं शोधयिष्यति तदा किं भावि इति विचिन्त्य क्षोभपरे जाते तद्वामनस्थलीनिवासिभिर्व्यवहारिभिर्दण्डदानं प्रतिपन्नम् ।
Jain EduInternational
46
अथ पंचत्वमापन्ने कर्णदेवे महीपतौ । श्रीमान् जयसिंहदेवः स्वयं राज्यमपालयत् ॥ १ ॥ ततः समुद्रमर्यादा मही तेन वशीकृता । सिद्धो वर्बरकश्चाथ सिद्धराजस्ततोऽभवत् " ॥ २ ॥
For Personal & Private Use Only
* प्रतिबोध प्रबंधः
॥ ५ ॥
brary.org

Page Navigation
1 ... 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156