SearchBrowseAboutContactDonate
Page Preview
Page 22
Loading...
Download File
Download File
Page Text
________________ प्रतियोध कुमार० ततस्त्रयोदशवषोणि चामुंडराजस्य राज्य, पड़ मासान् यावद् राज्यं बल्लभराजस्य, एकादशवषोणि षण्मासान् दुले प्रबंधः भराजराज्यं । स स्वपुत्रं (नप्तार) श्रीभीमदेवं स्वराज्ये न्यस्य स्वयं वैराग्यवान तीर्थयात्रां कुर्वन् मालवके गतः। श्रीमुंजेन "छत्रादिक मुश्च वा युद्धं कुरु" इत्युक्तो धर्मान्तरायं मत्वा प्रशमवान् कार्पटिकवेषेण यात्रां कृत्वा परलोकमसाधयत् । तत्स्वरूपं भीमेन ज्ञातम् । ततः प्रभृति राजद्वयविरोधः, भोजराजेन सार्ध भीमदेवस्य । तस्य द्वे राझ्यौ एका बकुलदेवी नाम्नी पण्याङ्गना पत्तनप्रसिद्धरूपपात्रं गुणपात्रं च । तस्याः कुलयोषितोऽपि अतिशायिनी प्राज्यमर्यादां नृपतिनिशम्य तवृत्तपरीक्षानिमित्तं सपादलक्षमूल्यां क्षरिका निजानुचरैस्तस्यै ग्रहणके दापयामास । औत्सुक्यात्तस्यामेव निशि बहिरावासे प्रस्थानलग्नमसाधयत् । नृपतिर्वषेद्वयं यावत मालवमण्डपे विग्रहाग्रहात्तस्थौ । सा तु बकुलदेवी तहत्तग्रहणकप्रमाणेन तद्वर्षद्वयं परिहतसर्वपुरुषसंगाऽभंग शीललीलयैव तस्थौ । निस्सीमपराक्रमो भीमस्तृतीय स्वस्थानमागतो जनपरम्परया तस्यास्तां प्रवृत्तिमवगम्य तामन्तःपुरे न्यधात् । तंदगजः क्षेमराजः। द्वितीया राज्ञी उदयमती । तस्याः सुतः कर्णदेवः । "क्षेमराजकर्णदेवौ, तत्पुत्रौ भिन्नमातृकौ । परस्परं प्रीतिभाजौ. यथा राघवलक्ष्मणौ ॥१॥ कर्णमातुस्ततस्तेन, भीमदेवेन चैकदा । प्रतिपन्न राज्यदानं, श्रीकर्णस्य लघोरपि ॥२॥ वशीकमिव स्वर्ग, भीमदेवे दिवंगते । द्विचत्वारिंशद्ववर्षाणि, राज्यं कृत्वा मनोरमम् ॥३॥ सौन्दर्यवर्यगांभीर्य-प्रज्ञाबुद्धिगुणोत्तमैः । राज्यक्षमे क्षेमराजे, कर्णो राज्यं न वाञ्छति ॥ ४ ॥ ॥३॥ राम इव क्षेमराजः, स्मृत्वा भाषां पितुस्ततः । कर्ण महोपरोधेन, स्वयं राज्ये न्यवीविशत् " ॥५॥ For Personal & Private Use Only www.brary.org Jain Education international
SR No.600191
Book TitleKumarpal Pratibodh Prabandh
Original Sutra AuthorMafatlal Zaverchand Gandhi
Author
PublisherMafatlal Zaverchand Gandhi
Publication Year1940
Total Pages156
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy