SearchBrowseAboutContactDonate
Page Preview
Page 21
Loading...
Download File
Download File
Page Text
________________ 33333333333EXXXXXXBOBBE "अभणंताणवि नजइ माहप्पं सुपुरिसाण चरिएण किं बुल्लन्ति मणीओ जाओ सहस्सेहिं धिप्पन्ति" ॥१॥ इति विचिंत्य राजकुमारस्य महताऽऽग्रहेण लीलादेवी नाम्नी स्वभगिनी ददे। अन्यदा कालान्तरे साऽऽपनसत्त्वा जाता। तस्या अकाण्डमरणे सचिवरुदरं विदार्य कर्षितमपत्यं मूलनक्षत्रे जात. त्वान्मूलराजोऽयमिति नाम कृतम् । तज्जन्मतो राज्यादिवृद्धिं दृष्ट्वा मदमत्तेन सामन्तसिंहेन स राज्येऽभिषिच्यते गतमदेन चोत्थाप्यते । तदादिचापोत्कटानां दानमुपहासाय जातम् । तदुक्तम् "चाउडदाति" एकदा मदमत्तेन स्थापितो राज्ये मूलराजस्तेन च विकलोऽयं मातुल इति विज्ञाय विनाशितो गृहीतं स्वयमेव राज्यं संवत् ९९८ वर्षे जातो राज्याभिषेकः स चातुलबलपराक्रमः प्रतापाक्रान्तसकलसीमालभूपालः स्वबलेन लाखाकं नृपं जितवान् । तत्स्वरूपं यथा परमारवंशे कीर्तिराजसुता कामलता शैशवे सखीभिः सह रममाणांधकारे प्रासादस्तंभान्तरितं फूल्हडाभिधं पशुपालं वृता. ततः कतिपयैः वर्षेः प्रधानवरेभ्यो दीयमाना पतिव्रता व्रतपालनाय तमेवोपयेमे. नयोः पुत्रो लाखाकः स कच्छाधिपः सर्वतोऽप्यजेयः एकादशवारांस्वासितमूलराजसैन्यः एकदा कपिलकोटे स्थितो मूलराजेन रुद्धो द्वन्द्वयुद्धं कुर्वाणस्तस्याजेयतां दिनत्रयेण विमृश्य तुर्ये दिने निजकुलदैवतमनुस्मृत्य ततोऽवतीर्णदेवतकलया लाखाको निजन्ने । तस्याजौ भूपतितस्य । भूपतेवातर्चलिते श्मश्रूणि पदं स्पृशन् मूलराजस्तज्जनन्या पतिव्रताव्रतनिष्ठया 'लुतारोगेण भववंश्या विनश्यन्तु ' इति शप्तो मूलराजः पंचपंचाशद्वर्षाणि यावद्राज्यं कृत्वा एकदा सांध्यनीराजनानंतरं ताम्बूले कृमिदर्शनात पूर्व गजादिदानं दत्त्वा सन्या| सपूर्व दक्षिणचरणाङ्गुष्ठे वह्निमोचनं कृत्वा 'अष्टादशभिदिनैः परलोकमगात् । १ अष्टादशप्रहरैरिति प्रत्यन्तरे । Jain Educ e rnational For Personal & Private Use Only wwwajamellorary.org
SR No.600191
Book TitleKumarpal Pratibodh Prabandh
Original Sutra AuthorMafatlal Zaverchand Gandhi
Author
PublisherMafatlal Zaverchand Gandhi
Publication Year1940
Total Pages156
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy