________________
कुमार
प्रतिबोध | प्रबंधः
॥२॥
गुर्जराणामिदं राज्यं वनराजात्प्रभृत्यपि । स्थापितं जैनमंत्रैस्तु तद्वेषी नैव नंदति ॥१॥
इति लोके प्रसिद्धिरभूत् , ततःषष्ठिवर्षाणि वनराजस्य राज्यं, पंचत्रिंशद्वर्षाणि तत्पुत्रस्य योगराजस्य राज्यं, पंचविंशति वर्षाणि क्षेमराजराज्यं, एकोनत्रिंशद्वर्षाणि भूयडराजराज्य, पंचविंशतिवर्षाणि वैरसिंहराज्य, पंचदशवर्षाणि रत्नादित्यराज्यं, सप्तवर्षाणि सामंतसिंहराज्यं, एवं चापोत्कटकुले सप्त राजानोऽभूवन् । एवं अनुक्रमवर्षगणनैः संवत्सर १९६ ततो ९९८ वर्षे दौहित्रसंताने चौलुक्यकुले राज्यं गतम् । तदाह
कान्यकुब्जीयचौलुक्यश्रीभूयडराजस्य सुतः कर्णादित्यस्तत्पुत्रश्चंद्रादित्यस्तत्पुत्रः सोमादित्यस्तत्पुत्रो भोमादित्यस्तस्यराज-बीज-दंडकनामानस्त्रयः पुत्राः, प्रथमो राजकुमारः “'दीसइविविह" इति विचार्य देशान्तरेषु परिभ्रमन् देवपत्तने सोमनाथयात्रां कृतवान् , तत्र च स्वप्ने त्वया पत्तने गत्वा सामन्तसिंहभगिनी लीलादेवी पाणिग्रहः कार्यः इति सोमनाथवचसा श्रीपत्तने समायातः, सामंतसिंहनृपं चाश्वकेलिं कुर्वन्तं दृष्ट्वाऽश्वधाते राज्ञा दत्ते राजकुमारोऽनवसरदत्तेन कशाघातेन पीडितो हाहेति शब्दमकरोत् राज्ञा कारणं पृष्टोऽवदत् , देव ! अश्वे कृतशोभनगतौ कशाघातो मर्माभिघातः संजातः ततोराज्ञा तस्यर्पितोऽश्वः तेन चाश्वशिक्षाकुशलेन दर्शितं वाहकेलीकौतुकम् । जातस्तयोः सदृशो योगः यतः--
"अश्वः शस्त्रं शास्त्रं वीणा वाणी नरश्च नाराचः पुरुषविशेष प्राप्ता भवन्त्योग्याश्च योग्याश्च" ॥१॥
ततः सामन्तसिंहनृपेणाचारादिभिर्महत्कुलमाकलय्य १ दोसइ विविहच्चरियं, जाणिजइ सुयणदुजणविसेसो । अप्पाणं च करिजइ हिंडिजइ तेण पुहवीए ॥१॥
॥२॥
Jain Ed
international
For Personal & Private Use Only
Jbrary.org