SearchBrowseAboutContactDonate
Page Preview
Page 19
Loading...
Download File
Download File
Page Text
________________ प्रतिज्ञा । तत्स्वरूपमाकर्ण्य रात्रौ गृहमागतो वनराजो गुप्तवृत्त्या भोजनवस्त्रादिना सत्कृतो मम राज्याभिषेके त्वयैव भगिन्या | तिलकं कार्यमिति प्रतिज्ञाय गतः। अन्यदा वनराजेन कस्मिन्नपि वने जांबाको वणिक् रुद्धः । शरपंचकमध्याच्छरद्वयं भूमौ मुश्चन् पृष्टः कारणं । प्राह, यूयं त्रयो जनाः शरास्तु पंच तेन द्वाम्यामधिकाभ्यां किं प्रयोजनमिति प्रोक्ते कोप्ययं सत्त्वशाली शूरः पुमान् मम राज्यकाले महाऽऽमात्यो भावीति मुक्तो जांबाकः कृतप्रणामः किमपि शंबलादिकं दत्त्वा गतः। एकदा गुर्जरपंचकुलं षण्मासैरुद्वाहितसुराष्टमंडलं चतुर्विंशतिलक्षहमनाणकान् चत्वारिंशच्छतजात्यतुरंगमान् लात्वा व्याघुटयमाने पथि वनराजेन हत्वा सर्व जगृहे । ततो वर्ष यावत्कालुंभारवने स्थितिं कृत्वा कान्यकुब्जस्थितिरुत्थापिता । ततो नवीनपुरनिवेशाय भूमि विलोकयता वनराजेनाऽणहिल्लो नाम गोपः प्राप्तस्तेन यत्र शश केन श्वा त्रासितस्तत्स्थानं दर्शितम् । ततस्तन्नाम्नाऽणहिल्लपुरं पत्तनं सकलवास्तुविद्याविचारपुरस्सरप्राकारप्रातोलीपरिखा-प्रासाद-विहार-हर्म्य-हस्तिशाला-तुरंगमशाला-भाण्डागार--कोष्ठागारा--युधशाला-ाजसभा-ऽलंकारसभा-स्नानगृह-भूमिगृह-धर्मशाला-दानशाला-सत्रागार-पानीयशालानाद्य-नाटय-गृह-क्रीडागृहशान्तिगृह-शिल्पशाला-चंद्रशालादिभिर्विशालं स्थापितम् । ततः पंचाशद्वर्षवयसोवनराजस्य राज्याभिषेकः श्रीपत्तने संवत् ८०२ वर्षे शीलगुणसूरिभिः जैनमंत्रः राज्यस्थापना च कृता । ततः पुरा प्रतिपन्नभगिन्या तिलकश्चक्रे । तस्याः महाप्रसादः जांबाकः सर्वकार्यक्षमो महामात्यः समभूत् । श्रीगुरूपदेशेन राजा वनराजः पुण्यवान् कृतज्ञः पंचाशरग्रामे श्रीपार्श्वनाथप्रतिमालंकृतं निजाराधकमूर्तियुतं प्रासादमचीकरत् । Jain Educ a tional For Personal & Private Use Only www.jamendrary.org
SR No.600191
Book TitleKumarpal Pratibodh Prabandh
Original Sutra AuthorMafatlal Zaverchand Gandhi
Author
PublisherMafatlal Zaverchand Gandhi
Publication Year1940
Total Pages156
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy